________________
यतेरेकादशाहे पार्वणश्राद्धप्रयोगः। १०७ तत: शुक्लपक्षे सिद्धिं गतश्चेत् केशवं तर्पयामि नारायणं तर्पयामि माधवं० गोविन्दं० विष्णुं० मधुसूदनं० त्रिविक्रमं० वामनं० श्रीधरं० हृषीकेशं० पद्मनाभं० दामोदरं० इति ।
कृष्णपक्षे सिद्धिं गतश्चेत् सङ्कर्षणं० वासुदेवं० प्रद्युम्नं० अनिरुद्धं० पुरुषोत्तमं० अधोक्षजं० नारसिंह अच्युतं जनार्दनं० उपेन्द्रं० हरि० इति द्वादशनामभिस्तर्पयेत् । इदं तर्पणं क्षीरेणेति केचित् । ततस्तीरं प्राप्य धौतवस्त्रं परिधायाचम्य सिद्धिं गतस्य ब्रह्मभूतस्य परमहंसनारायणस्वरूपिणस्तृप्त्यर्थ नारायणपूजनं करिष्ये इति सङ्कल्प्य देवयजनोपरि नदीतीरे वा चतुरस्रवेदिकां संपाद्य तत्र मृन्मयं लिङ्ग संस्थाप्य नदीजले एव वा तत्स्वरूपं विचिन्त्य पुरुषसूक्तेन “ॐ नमो नारायणाय” इत्यष्टाक्षरेण वा आवाहनाधुपचारैः पूजयेत् । ततः पायसबलिं दत्वा घृतदीपं च समर्प्य पायसबलिं नद्यादौ क्षिपेत् । ततः शङ्खन शुद्धजलमादाय तत्र गन्धपुष्पतुलसीदलानि प्रक्षिप्य "ॐ ब्रह्मणे नम: इदमयं समर्पयामि' इत्येवमष्टााणि दद्यात् । एवं प्रकारेण संपूज्य सर्वे वाद्यादिघोषेणात्युत्सवेन गृहं गच्छेयुः । इति प्रथमदिनकृत्यम् ।
यतेः सूतकं न भवति । सम्यग् व्रताचरणं कुर्यात् । पुत्रादिर्दशदिनपर्यन्तं प्रत्यहं केशवादिद्वादशनामभि: संकर्षणादिद्वादशनामभिर्वा तर्पणं पूर्वोक्तनारायणपूजनं पायसबलिदानं घृतदीपदानमर्घ्यदानं च कुर्यात् ।
अथ यतेरेकादशाहे पार्वणम् ।
तत्रायं प्रयोगःएकादशाहे (१)पुत्र: प्रातर्नित्यक्रियो मध्याह्ने नद्यादौ स्नात्वा तिलतर्पणं कुर्यात् । ततो गृहमागत्य गोमयादिनोपलिप्ते शुचिस्थले उपविश्य श्राद्धसामग्री संपाद्य गणेशं शालग्रामं च संस्थाप्य दक्षिणाभिमुखं दीपं प्रज्वलय्याऽऽचम्य दीपं संपूज्य हस्तयोः पुष्पाणि संगृह्य
(१) पुत्रादन्यः शिष्यादिः कर्ता चेत् नद्यादौ स्नात्वा यज्ञोपवीत्येव आत्मानं तर्पयामि अन्तरात्मानं तर्पयामि परमात्मानं तर्पयामि इति देवतीर्थेन एकैकमञ्जलि दद्यात् ।