________________
१०८
अन्त्यकर्मदीपकोत्तरार्ध ॐ यं ब्रह्म वेदान्तविदो वदन्ति परे प्रधानं पुरुषं तथाऽन्ये । विश्वोद्गते: कारणमीश्वरं वा तस्मै नमो विन्नविनाशनाय ॥
अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ इति गणेशोपरि पुष्पाञ्जलिं समर्प्य
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥ इति विष्णुं ध्यात्वा पुष्पाञ्जलिं समर्पयेत् । ततो वैश्वदेविकब्राह्मणं ब्रह्मीभूतपित्रादि(गुरु)ब्राह्मणं च कुशमयं सम्पाद्य तैलाभ्यङ्गपूर्वकं संस्नाप्य "ॐ एतंते” इति पठित्वा ॐ भूर्भुवःस्वः विश्वदेवसम्बन्धिकुशब्रह्मन् सुप्रतिष्ठितो वरदो भव । ब्रह्मीभूतपित्रादि (आत्मादि) सम्बन्धिकुशब्रह्मन् सुप्र० इति ऋतिष्ठापयेत् । तत:___ कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मित: पुरा ।
त्वय्यर्चिते सोऽर्चितोऽस्तु यस्याहं नाम कीर्तये ॥ इति पठेत् । ततो यवान् गृहीत्वा अद्येह अमुकगोत्रब्रह्मीभूतपित्रादित्रयश्राद्ध सम्बन्धिनां पुरूरवावसंज्ञकानाम् ('आत्मादित्रयश्राद्धसंम्बन्धिनां साधुरुरुसंज्ञकानां) (१)विश्वेषां देवानामेकादशाहकर्तव्ये पार्वणश्राद्धे भवान्मया निमन्त्रित इति निमन्त्रयेत् । निमन्त्रितोऽस्मि इति प्रत्युक्तिः ।
अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥ सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः ।
भवितव्यं भवद्भिर्नोऽद्यतने श्राद्धकर्मणि ॥ इति नियमान् श्रावयेत् । आगतं वः । स्वागतम् | चरणप्रक्षालनार्थं जलम्-एतद् वः पाद्यमस्तु । (१) सम्बन्धनामगोत्रैश्च पार्वणं द्वादशेऽहनि।तत्क्रमात् ज्ञातयः कुर्युः एकादशदिनेऽपिवा॥ अथवात्मान्तरात्मेति परमात्मेत्युदाहृतेः ।तत्र श्राद्धे साधुरुरवो विश्वेदेवाः प्रकीर्तिताः ॥
इति सुमन्तुस्मरणात् पुत्रादिकर्तृके पार्वणश्राद्धे सम्बन्धनामगोत्रोल्लेखः, शिष्यादिकर्तृके तु आत्मान्तरात्मा परमात्मेत्युल्लेखः, साधुरुरुसंज्ञका विश्वेदेवाः, यज्ञोपवी. तित्वं, तिलाथै यवाः, सङ्कल्पादि पिण्डदानान्तमग्नौकरणव देवश्राद्धवत् इति विशेषः।