________________
अनेका-जव्यवस्थाप्रकरणम् ]
[ ११
आश्रवो मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स च क आत्मानं शुद्र लाँश्च विहाय !, वन्धश्चाऽऽप्रदेश संश्लिष्टकर्म पुद्गलात्गकःसंवरोऽप्यात्मन एवाऽऽश्रवनिरोधलक्षणो देश- सर्वनिवृत्तिपरिणामः; निर्जरा तु पार्थक्याऽऽपन्नजीव - पुद्गलदशैव, मोक्षोऽपि समस्त कर्मरहित आत्मैवेति ? सत्यम् - इदमित्यमेव, किन्त्विदं शास्त्रं मुमुक्षुशिष्यप्रवृत्तये, सा च मुक्ति-संसारयोः कारणयोर्भेदेनाभिधानं विना न स्यादित्याश्रवो बन्धश्चेति द्वयं मुख्यं संसारकारणम्, संवरो निर्जरा चेति द्वयं मुख्यं मोक्षकारणमुपात्तम् ; यत् तु मुख्यं प्रयोजनं मोक्षो
विस्तरतस्तत्त्वार्थस्य षष्ठाध्याये तत एव च मिथ्यादर्शनादिरूप - परिणामस्याऽऽश्रवत्वावगति कार्या । स च मिथ्यादर्शनादिरूपपरिणामश्च, अन्यत् स्पष्टम् | आश्रवादीनां जीवाजीवाभिन्नत्वमभ्युपेत्य समाधत्ते - सत्यमिति । इदमित्यमेव यद् यथा भवताऽभिहितं तत् तथैव । नेन्वेवं 'जीवाजीवास्तत्त्वम्' इत्येव वक्तव्यं स्यात्, तत्रह किन्त्विति । सा च मुमुक्षुशिष्यप्रवृत्तिश्च । ' मुक्ति - ससारयोः कारणयोः ' इति स्थाने 'मुक्ति-संसारकारणयो.' इति पाठो युक्त, संसारकारणहानार्था मुक्तिकारणोपादानार्था च मुमुक्षूणां प्रवृत्तिः 'इदं संसारकारणं ममाऽनिष्टसाधनम्, तद्वानं च भमेष्टसाधनम्' इति ज्ञानमन्तरेण च न सम्भवति, तथाभूतज्ञानं च विशिष्य संसारकारण-मुक्तिकारणयोर्ज्ञानमन्तरा न सम्भवतीति संसारकारणस्य मुक्तिकारणस्य च ज्ञानार्थ भेदेन संसारकारण-मुक्तिकारणयोरभिधानमावश्यकमित्यर्थः । संसारकारणमाश्रवो वन्धश्च, मुक्तिकारणं -संवरो निर्जरा चेत्यतश्चतुर्णामाश्रवादीनां पाथक्येनाभिधानमित्याहआश्रव इति । अन्यान्यपि परम्परया संसारकारणानि मुक्तिकारणानि च, तेषां पार्थक्येनाभिधानं मा नाम प्रापदित्येतदर्थं 'मुख्यम्' इति