________________
१०]
[ તરવવોધિની વિકૃતિવિભૂમિ जीवाः' इति प्रयोगयोरपि साधुत्वापत्तेः, उपदर्शितनीत्या तु बहुत्वापच्छेदेनैवैकत्यस्य वलसत्पात् 'करि-तुरग-रथाः सेना' इत्यादाविप बहुवचनावरूद्ध एकवचनावरुद्धस्योद्देश्य-विधेयभावेनान्वयो नानुधृपन्न इति दिक् ॥
ननु कथं सप्तैव तत्वानि ? पुण्य-पापयोरप्यधिकयोः सत्वादिति चेत् ? न-धन्ध एव तयोरतर्भावमभिप्रेत्य भेदेनानभिधानात् । हन्त, तर्हि 'जीवाऽजीवास्तवम् ' एतावदेव वाच्य स्थान, आश्रवादीनामपि पञ्चानां जीवाजीक्योरभिन्नत्वात, तथाहि
सम्भवेन 'उपयोगवन्तो जीवः' इति प्रयोगोऽपि साधुः स्यादिति तयात् स्वाभाविकप त्वविशिष्ट नैकत्वान्वय इत्येव स्वीकर्तव्यमिति न टीकाकार समाधानं युक्तमित्यर्थः। उपचरितकत्वस्य तु वहुत्वावच्छेदेनोद्देश्य-विधेयभावेनान्वयस्त्वस्मदभिमतोऽन्यत्र ६ ५वेति तथा समाधाने न काप्यनुपपत्तिरित्याह-उपदर्शितनीत्या लिति 'वस्तुतः०' इत्यादिदर्शितदिशा पुनरित्यर्थः ।
न्यूनाधिकसङ्घयाव्यवच्छेदकलो हि विभागो भवति, प्रकृते तु पुण्य-पापयोरधिकयो. सत्त्वात् तत्वस्य सप्तधा विभजनमसतमिति शङ्कते- नन्विति । क्लप्ते बन्धपदार्थ एव पुण्यापुण्ययोरन्तर्भावान्न तयोरधिकतेत्यधिकसङ्ख्याव्यवच्छेदस्यात्रापि सम्भवानोक्तविभागासामजस्थिित प्रतिक्षिपति नेति। तयोः पुण्य-पापयोः। न चैव धर्मास्तिकायादीनामिवाऽऽश्रवादीनामपि जीवभिन्नत्वेनाजीवपदार्थ एव, जीवधर्मतया जीवपदार्थ एव वाऽर्भावसम्भवाद् जीवा-ऽजीवभेदेन द्विविधतयैव तत्पविभजनं न्याय्यमिति शङ्कते- हन्नति । माश्रवादीनाम् आश्रव-वन्ध-संवर निजरा-मोक्षाणाम्। आश्रवादीनां पञ्चानां जीवाजीचाभिन्नत्वं भावयति- तयाहीत्यादिना । आश्रवनिरूपण