________________
८]
[ dવવોધિનીતિવિભૂષિત "इत्येष सप्तविधोऽर्थस्तत्वम् , एते वा सप्त पदार्थास्तत्वानि" इति भाष्यकारः, 'तत्त्वम्' इत्यस्याव्युत्पत्तिपक्षे परमार्थ इत्यर्थः, व्युत्पत्तिपक्षे तु जीवादीनां या स्वसत्ता सा तचपदेनोच्यते, तस्याश्च प्रतिवस्तु यो भेदस्तमनास्त्यैकवचनम् , नैयायिकादिवत् तस्या अतिरिक्तत्वानभ्युपगमेन वस्तुधर्मतया प्रतिवस्तु भेदमभिप्रेत्य च भाव्ये बहुवचनमपीति टीकाकृतः ।
वरणादि अविध कर्म, तद्विशुद्धस्तद्रहितः, स्वात्मा अनन्तज्ञानादि. रयरूपम् , तस्य लाभ. प्राप्तिः । - सूत्रे तस्वस्' इत्युक्तम्, भाष्ये च तत्त्वम्' इत्येकवचनम् 'तत्त्वानि' इति वहुवचनम्, इत्येतद्वयं यथासङ्गतं तथा भाग्यवचनमुल्लियोपदर्शयति- इत्येष इति । अव्युत्पत्तिपक्ष इति- परमार्थरूपाथै रूढ एवायं तत्वशद इति पक्ष इत्यर्थः । व्युत्पत्तिपक्षे तु तस्य भावस्तत्त्वमिति यौगिकोऽयं तत्वशब्द इति पक्षे पुन । स्वसत्ता चरूपसत्ता। सा स्वरूपसत्ता। तस्याश्च स्वरूपसत्तायाः पुनः । प्रतिवस्तु प्रतिव्यक्ति, स्वरूपसत्ता व्यक्तिस्वरूपति व्यक्तिभेदेन तस्या अपि भेदः, एवमनुगतप्रतीत्यनुरोधेन कथञ्चिदैक्यमपीति तमनादृत्य सन्तमपि भेदं गजनिमीलिकयोपेक्ष्य तत्त्वम्' इत्यत्रैकवचनमुक्तम् । नैयायिकादिः' इत्यादिपदाद शेषिकपरिग्रहः, नैयायिक-वैशेषिकाभ्यां यथा द्रव्य-गुण-कर्मसु परसामान्यस्वरूपायाः सर्वथा व्यतिरिक्ताया: सत्ताया अभ्युपगमस्तथा जैनेन सत्ताया अतिरिकत्वस्थानभ्युपगमेन धर्म-धर्मिणोरमेदेन वस्तुधर्मतया वस्त्वात्मकत्वात् प्रतिवस्तु थो भेदस्तमभिप्रेत्य भाष्ये 'तत्वानि' इति बहुवचनमपि सङ्गतमिति टीकाकृतः तत्त्वाथटीकाकारा , आहुरिति शेषः ।