________________
मने व्यवस्थाप्रकरणम् ]
[७ शुभाशुभकर्माऽऽदानहेतव इत्यर्थः । बन्धो नाम- आश्रवातकर्मण आत्मना सह प्रकृत्यादिविशेषतः संयोगः।,आश्रवनिरोधहेतुः संवर विपाकात तपसो पा कर्मणां शाटो निर्जरा। सर्वोपाधिविशुद्धस्वात्मलाभो मोक्षः।
जीवाऽजीवाभ्यामन्यत्वे तत्वार्थसूत्रवृत्तिकृता युक्तिरावेदिता"आश्रयः क्रियाविशेषः, स चात्म-कायाद्याश्रयो न जीवो न जीव पर्यायः केवलः, नवाऽजीवो नापि तत्पर्याय:, उभयाश्रयत्वात्, न च पदार्थान्तरं जीवाऽजीवाभ्यामतो भेदेनाऽऽश्रवस्वरूपमिदं लक्षणविधानाभ्यां व्याख्यातुं प्रक्रियते" इति, “काय-वासना कर्म योग." [त० ६. १. ] इत्यनेन कायिकं कर्म, वाचिकं कर्म, मानसं कर्मति त्रिविधयोगस्वरूपमभिधाय "स आत्रवः" [त०६. २.] इत्यनेन तस्याऽऽश्रवत्वमवधारित शुभाशुभकमणोरालवणादानव इति व्युत्प. त्युदर्शनेन, तेन च शुभाऽशुभकर्मादानहेतुत्वं तल्लक्षणपर्यवसितम्। बन्यस्वरूपमुपदर्शयति- वन्धो नामेति। 'प्रकृत्यादि०' इत्यादिपदात स्थित्यनुभाव प्रदेशानां ग्रहणम् , तेन च प्रकृतिबन्धः, स्थितिवन्धः, अनुभावबन्धः, प्रदेशबन्ध इत्येवं चतुर्विधो बन्ध इत्यावेदितम् । संवरस्वरूपमावेदयति- आश्रवेति-गुप्ति समिति-धर्मानुप्रक्षा-परिषहजयचारित्राणि आश्रवनिरोधहेतवः, आश्रवनिरोध एव संवरः, तद्धे. 'तुत्वाद् गुप्त्यादयोऽपि संपर इति । निर्जरास्वरूपमुपदर्शयति । विपाकादिति- फलोपभोगादित्यर्थः । तपसो वेति- अनशनाऽ-चौदार्यवृत्तिसङ्ख्यानर-सपरित्याग-विविक्तिशच्यासन-कायपलेशलक्षणषड़विधवाहातप:प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-व्युत्सर्ग-ध्यानलक्षणपविधान्तरतपोभ्यां वेत्यर्थः । शाट. आत्मप्रदेशेभ्योऽपगमः पृथग्भवनम् । मोक्षस्वरूपमुपदर्शयति सर्वोपाधीति- उपाधिश्चात्र ज्ञाना