________________
[ તત્વોધિની વિવૃતિવિધિતમ્ ____ जीवा:- औपशमिकादिभावान्विताः । अजीपा:- धर्मादयश्चस्वारोऽस्तिकायाः। आश्रूयते- गृह्यते यैः कर्म ते आश्रयाः,
माया-लोभमेदेन चतुर्विधः कषायः; स्त्री-पुं-नपुंसकमेदेन विविधो वेदः, मिथ्यादर्शनम् , अज्ञानम् , असंयतत्वम्, असिद्धत्वम्, कृष्णलेल्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पझलेश्या, शुक्ललेश्या इति षड् लेश्या इत्येते एकविंशतिरौयिका भावाः, जीवत्वम्, भव्यत्वम्, अभव्यत्वमित्येते त्रयः पारिणामिका भावा इत्येवमोपशमिकादिपञ्चविधभावान्यतमवत्व जीवस्य लक्षणं प्रति पत्तव्यमित्यर्थः। 'उपयोगलक्षणो जीवः' इति तद्रहितोऽजीव इति तान् दर्शयति मजीवा इति । 'धर्मादय.' इत्यत्रादिपदाद् अधर्माऽऽकाश• -पुद्गलानां ग्रहणम् , तथा च धर्मास्तिकायः, अधर्मास्तिकायों, आकाशास्तिकायः, पुद्गलास्तिकाय इत्येवं चतुर्भदा अजीवा इत्यर्थः, अस्तिशब्देन ध्रौव्यम् , कायशब्देनोत्पाद -विनाशावित्युत्पाद-विनाशध्रौव्यैतत्त्रितयात्मकत्वलक्षणं सायमेतेचस्तिकायदप्रयोगतोदर्शित भवति, जीवा इत्यपि जीपारिकाया इत्येवरूपं वाच्यम् , उत्पादव्यय-ध्रौव्यलक्षणसरवस्य तत्रापि तत एव प्रतीतः। तत्र “ गति. स्थित्युपत्रहो धर्मा-ऽधर्मयोरुपकारः" [५.१७] इति तत्वार्थस्त्राद 'गतिमतां जीव-पुद्गलानां गत्युपग्रहकारित्वं धर्मास्तिकायस्थ लक्ष•णम् , स्थितिमतां जीय पुद्गलानां स्थित्युपमहकारित्वमधर्मारित
कायस्य लक्षणम् , अत एव लोकाकाशमानव्यापितयेवधर्माऽधर्म-योर्भावालीकाकाः एव जीव-पुद्गलयोर्गति-स्थिती नान्यत्र । " आकाशस्थावगाह." [त० ५.१८.] इति सूत्राद् अवगाहनां धर्भा-ऽधर्म-पुद्गल जीवानामवगाहोपत्रहकारित्वमाकाशस्य लक्षणम्। "रूपिणः पुद्गलाः" [त० ५.४] इति सूत्राद् रूपवन पुदबालानां लक्षणम् आश्रवलक्षणमुपदर्शयति-आश्रूयत इति-आश्रयस्थ