________________
'अनेकान्तेव्यवस्थाप्रकरणम् ]
" जीवाजीवाऽऽश्रव-बन्ध संवर- निर्जरा मोक्षास्तवम् " [ तत्रार्थाधिगम० अ० १. सू० ४.]
पयाऽपहस्तयितुं शक्य इत्याशयेनोत्तरयति - उच्यत इति । ' भावाभावादि०' इत्यादिपदान्नित्यत्वाऽनित्यत्व-भेदाभेदादेरुपग्रहः । तथा च तत्वेषु जीवादिपदार्थेषु भावाऽभाव-नित्यत्वाऽनित्यत्व-भेदाऽभेदाद्य'नन्तधर्मसहितैकरूपत्वमनेकान्तः, एकस्यैकानेकस्व स्वरूपत्वमने कान्त - इति यावत् । तस्य भावस्तत्त्वमुच्यते, प्रकृतं च तच्छब्दार्थः, न चात्र प्रकृतं किञ्चिदस्ति यस्य भावस्तत्त्वं स्यात्, यत्रैकमपि तवं दुर्लभं तंत्र बहुवचनान्ततत्त्वशब्दवाच्याने कतत्त्वानां दुर्लभत्वे किमु वक्तव्यमित्याशयेन परः पृच्छति कानीति । यौगिकस्य तत्वशब्दस्य प्रकृतधर्मप्रतिपादकत्वेऽपि प्रकृते रूढस्य तस्य पदार्थप्रतिपादकत्वमित्याशयेनोत्तरयति - तंत्रेदमिति, तंत्र- उक्तम, इदम्- अनन्तर मेवाभिधीयमानं तत्त्वप्रतिपादकं 'तत्त्वार्थ सूत्रम् ' उत्तरम्, “जीवान जीव०" [१.४ ] इत्यादि सूत्रम् । संक्षेपेण जीवादिपदार्थानां स्वरूपमुपदर्शयति- जीवा इति । 'औपशमिकादि० ' इत्यादिपदात् क्षायिकक्षायोपशमिकौदयिक-पारिणामिकभावानां परिग्रहः तथा च - औप'शनिकः, क्षायिक', क्षायोपशमिकः, औदयिकः पारिणामिकश्चेत्येवं पञ्चविधभावान्विता जीवा इत्यर्थः । तत्र सम्यक्त्व चारित्रे द्वावपशमिकभावौ; ज्ञान-दर्शन-दान लाभ-भोगोपभोग वीर्यसम्यक्त्व चारिआणि नव क्षायिका भावा., मतिज्ञानम्, श्रुतज्ञानम्, अवधिज्ञानम्, मन पर्यवज्ञानमित्येव ज्ञानचतुष्टयम्, भत्यज्ञानम्, श्रुताऽज्ञानम्, વિમ જ્ઞાનમિત્યેવમજ્ઞાનત્રયમ્; ધ્રુવંશનમ્, અચક્ષુર્વેશનમ્, અધિ दर्शनमिति दर्शनत्रिकम् दानलब्धि लाभलब्धि., भोगलब्धिः, उपभोगलब्धि:, वीर्यलब्धिरिति लब्धिपञ्चकम् ; सम्यक्त्वम्, चारित्रम्, संयमासंयम इत्येते दश क्षायोपशमिका भावा नारक तैर्यग्यौन-मनुष्यदेवगतिमेदेन चतुर्भेदा गतिः क्रोध-मानु
;
,
Ties