________________
અને
હવ્યવસ્થાપ્રજામ્ ]
[ ३८१
तदेव भोक्तृत्वमस्य, न तु विकारापत्तिः, न च पुरुषे प्रतिविम्वमात्रसङ्क्रान्तावपि स्वरूपं प्रच्युतिमेति, दर्पणवदविचलितस्वरूपत्वादिति चेत् ? ननु प्रतिविम्वसङ्क्रमासम्भवात् तदधिष्ठानत्वमेव सः, तथा च भोक्तृत्वव्यवहारानुरोधात् प्रातिभासिक भोक्तृत्ववत् कर्तृत्वव्यवहारानुरोधात् प्रातिभासिकं कर्तृत्वभप्यात्मनि किं न स्वीक्रियते १ । किश्च, एवमात्मनि श्रा- भोक्तृत्वादिकल्पनापेक्षयाऽभ्रान्ततत्कल्पनातीत्यर्थः । तदेव अर्थप्रतिविम्वसङ्क्रमणमेव । अस्य पुसः । न त्विति - पुंसि विकारापत्तिर्न तु भोक्तृत्वमित्यर्थः । प्रतिबिम्बकान्तावपि पुरुषोऽविचलितस्वरूप पवेति शन्तावप्रम्भेन समर्थयति - न चेतिअस्य 'पति' इत्यनेन सम्बन्धः । दर्पणवदिति- दर्पणे मुखप्रतिविम्व सङ्क्रान्तावपि यथा दर्पणमविचलितरूपं तथेत्यर्थः । सिद्धान्ती युच्या तत् प्रतिक्षिपति - नन्वित्यादिना एकं स्थानं परित्यज्याऽन्यस्थानगमन सङ्क्रमणम्, न च तत् प्रतिविस्वस्य सम्भवतीति प्रतिविम्वाधिष्ठानत्वमेव प्रतिविम्वसक्रमणम्, तथा च शुकौ . रजताभ्यासाद् रजताध्यासाधिष्ठानत्वं शुक्तेरिति रजतं तत्र प्रातिभासिकम्, न तु वास्तविकम् परमपि भ्रमंदशायां भ्रान्तस्यः रजतव्यवहारस्तत्र तथा भोक्तृत्वस्योकप्रतिविस्वाधिष्ठानत्वंरूपस्यव्यवहारोऽध्यासनिवन्धन इत्यतः प्रातिभासिक मोत्तृत्वमात्मनो न' वास्तविकम् एवं कर्तृत्वव्यवहारानुरोधात् प्रातिभासिक कर्तृत्वम प्यात्मनि किं न साइयैः स्वीक्रियत इत्यर्थः । स प्रतिविम्बसक्रमः । तथा च प्रतिविम्वाधिष्ठानत्वस्यैव प्रतिविम्वसङ्क्रमरूपत्वे च । उक्तदिशा भ्रान्तमेव भोक्तृत्वादिकं साझख्यमते कल्पितं भवति, तत्र: चान्यगतं भोक्तृत्वादिकं वास्तविकम्, तदन्यत्राऽऽरोपित मिति' कल्पनाद्वयं स्यात् तदपेक्षया लाघवाद् वास्तविकमेव कर्तृत्व-भोक्तु-, त्यादिकमभ्युपगम्यतामित्याह- किञ्चेति । एवम् उक्तप्रकारेण प्रति-