________________
नेतिव्यवस्थामारणम् ]
[३७९ त्तिकद्रवत्वादिस्थानीयत्वेऽपि तं प्रति निमित्तत्वेनात्मनोऽप्रकृतिविकृतित्वमङ्गापत्तेः।
किञ्च, यदि प्रकृतिरकृतस्थापि कर्मणोऽतात्विकसंयोगेनापि फलमभिलपितमुपनयति, तदा सर्वदा सर्वस्य पुंसोऽभिलपितार्थसिद्धिः किमिति न स्यात् १, न च तत्कारणस्य धर्मस्याभावान्न सा
जन्यत्वेन विष्ठत्वमिति सर्गस्य शिष्टत्वेनात्मनिष्ठत्वमपीत्यात्मविकृति स्वेन तं प्रत्यात्मनः प्रकृतित्वप्रसङ्ग नैमित्तिकद्रवत्वेति- नैमित्तिकद्रवत्वं • सुवर्णादिगतमनिस्वर्णोभयसंयोगजत्वादग्निवर्णोभयजत्वेऽपि स्वर्णनिष्टमेव नाग्निनिष्ठं तथा तत्कल्पः सर्ग उभयजोऽपि प्रकृत्तिनिष्ठ एव न पुरुषनिष्ठः, एवमपि पुरुषस्य तत्र निमित्तकारणत्वेन कूटस्थनित्यरूपत्वं न स्यादिति “न प्रकृति पि विकृतिः पुरुष.." [सायकारिका ] इत्यनेन स्वीकृतस्याऽप्रकृति-विकृतित्वस्थ भज्ञापत्तेरित्यर्थः। पुरुषेणाकृतस्यापि कर्मणः फलं यदि स्वसंयोग- . मात्रेण प्रकृतिः पुरुषस्य सम्पादयति तदा तत्संयोगस्य सर्वदा सर्वस्य पुरुषस्य भावात् सर्वस्य सर्वदा पुंसोऽभिलषितार्थसिद्धिः प्रसज्यते-- त्याह-किञ्चति । असङ्गे पुरुषे न वस्तुतः प्रकृतिसंयोगः सम्भवतीत्यत उक्तम्- अतात्विकमयोगनेति । ननु प्रकृत्या धर्मफलस्य सुखस्य जनने धोऽपि, सहकारिकारणतयाऽपेक्षित इति धर्मरूपकारणं यदेव यं पुरुषमधिकृत्य फलप्रदानाभिमुख भवति तदैव तस्य फलं भवतीति न सर्वदा सर्वस्थ पुंसोऽभिलषितार्थसिद्धिप्रसङ्ग इत्याशकाय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम् ' इत्यनेन सम्बन्धः। तत्करणस्य अभीष्टफलकारणस्य । सा सर्वस्य पुरुषस्व सर्वदाऽभिलषितार्थसिद्धिः। धर्मोऽपि प्रकृतेरेव धर्मः, तमप्युत्पादयितुं प्रकतिरेव प्रगल्मेति धर्ममुत्पाद्य तद्वारा पुरुषस्याभिलषितार्थसिद्धि सम्पादयेदिति