________________
[ તત્ત્વવોધિનીવિદ્યુતિવિમૂવિતમ્
+
नादियुक्तस्योत्पत्याविरोधात् । न च प्रधानं प्रेक्षावत् कारणं युक्त, अचेतनत्वात् तस्य, 'शक्तितः प्रवृत्तेः' इत्यनेन च किमप्य तिरिक्तशक्तिमत् कारणं साध्यते ? आहोस्वित् व्यतिरिक्ताने कशक्तिसम्बन्धि तदेकत्वादिधर्मकलापाध्यासितम् । नाद्यः - सिद्धसाधनात् कारणमात्रस्य ततः सिद्ध्यभ्युपगमात्, द्वितीये हेतोरनेकान्तिकता, तथाभूतेन क्वचिदप्यन्यथासिद्धेः न च विभिन्नशक्ति
३७२ ]
मेतत् परिमितकार्यमेवोत्पादयितुं प्रभुरीदृशसामर्थ्य वलात् प्रतिनियतपरिमाणस्य कार्यस्योत्पत्तौ विरोधाभावेन प्रेक्षावत्कारणस्य ततः सिद्धयभावादित्यर्थः । किञ्च, चेतनं प्रेक्षाकारि भवति, नाचेतनभू, प्रधानं चाऽचेतनमुपेयते साङ्ख्यैरिति प्रेक्षावत्कारणसाधने न प्रधानसिद्धिरपीत्याह-न चेति- अस्य 'युकम्' इत्यनेनान्वयः । तस्य प्रधा नस्य । 'शक्तिः प्रवृत्तेः' इति हेतुं विकल्प्य दूषयति-शक्ति इति । 'शक्तिः प्रवृत्तेः' इत्यनेनाऽतिरिकशक्तिमत् किमपि कारणं साध्यत इति प्रथमपक्षं प्रतिक्षिपति - नाऽऽय इति । यत् किमपि कारणं यंत्र कचन कार्य प्रति मयोपेयते तत् तत्र शक्तिमदेवेति तथासाधने सिद्धसाधनमेवेत्याह- सिद्धसाधनादिति । उत्तरग्रन्थपर्यालोचनया प्रथम विकल्पे 'अतिरिक्तशक्तिमत् कारणम्' इति स्थाने 'अनतिरिक्तशति मद्' इत्याभाति, यतोऽत्र साङ्ख्यस्य प्रतिमल्लीकृतो बौद्धः कुर्वद्रूपत्वाख्यलक्षणामेव शक्तिमुररीकरोति सा च शक्तिः कारणस्वात्मभूतैव, अत एव द्वितीयपक्षखण्डने 'स्वात्मभूतत्वाच्छतीनाम् ' इत्युक्तमिति । व्यतिरिक्ताने शक्तिसम्वन्धि तदेकत्वादिधर्मकलायाध्यासितं साध्यत इति द्वितीयकल्यं दूपयति- द्वितीय इति । अनन्यथासिद्धौ सत्यां कारणत्वं भवति, न त्वन्यथासिद्धों, प्रकृते चोकरूपेणान्यथासिद्धिरेव, न त्वनन्यथासिद्धिरिति व्यतिरिक्तानेकशक्ति सम्बन्धिन एकत्वादिधर्मकलापाध्यासितस्य प्रधानस्यानन्यथासिद्धय
1