________________
३६६ ]
[ तत्त्वबोधिनी विकृतिविभूषितम् गौरवात् , वैजात्येन सुख-दुःखयोर्वा तत्रोत्तेजकत्वं मनःसंयोगविशेपादेति विनिगमनाविरहाचेति नव्यवौद्धसिद्धान्तस्येवोद्धतत्वात् । किञ्च शब्दादीनां सुखादिरूपत्वे भावनावशेन मद्या-ऽङ्गनादिषु कामुकादीनाम् , करभादीनां च कण्टकादिषु प्रतिनियताः प्रीत्यादयो न
किन्तु प्रत्येकं चित्रा संवित् प्रसज्येत । अथ यद्यपि त्रयात्मक वस्तु तथाप्यदृष्टादिसहकारिवशात् किञ्चिदेव कस्यचिद्रूपमाभाति न सर्व सर्वस्येति चेत् ? न तदाकारशून्यत्वादयस्वाल बनप्रतीतिप्रसक्तेः, तथाहियाकारं तद्वस्त्वेकाकारं च संविदा संवेद्यत इति। न च, यथा प्रत्यक्षेण गृहीतेऽपि सर्वात्मना पस्तुन्यम्यासादिवशात् क्वचिदेव क्षणिकत्वादी निश्चयोत्पत्तिर्न सर्वत्र, तद्वददृष्टादिबलादेकाकारा संविदुदेष्यतीत्यभिधातुं क्षमम्, क्षणिकादिविकल्पस्थापि परमार्थतो वस्तुविषयत्वानभ्युपगमात्, वस्तुनो विकल्पादर्शयति । तदुत्तेजकत्वेति-सुख-दुःखोत्तेजकत्वेत्यर्थः। निरासे हेत्वारभप्याह-वैजात्यनेति। तत्र मानसान्यज्ञानसामग्रीनिष्ठप्रतिबन्धातायाम्। सुख-दुःखादिक ज्ञानस्वरूपमेवेति नव्यवौद्धसिद्धान्तः। अपि च शदा. दीनां सुख दुःख-मोहसरूपत्वे सर्वस्य सस्तेषुप्रीत्यप्रीति-भोहादिचित्र प्रतिपत्तिः स्यात्, न तुकस्यचित् कुत्रचित्प्रीतिः कस्यचिदप्रीतिरित्य प्रीत्यादयः प्रतिनियताःप्रादुर्भवेयुरित्याह किञ्चेति । कामुकादीनाम्' इत्यस्य 'प्रीत्यादयः' इत्यत्रान्वयः। चित्रा प्रीत्यनीति मोहात्मिका। साय शङ्कते- अथेति । प्रतिक्षिपति-नेति। यात्मकं वस्तु प्रतीतिश्चैकाकारति त्रयात्मकवस्त्वाकरित्वाऽभावादेकात्मकस्याऽवस्तुत्वेन तदाकारप्रतीतरवस्वालम्बनत्वेनाऽवस्त्वालम्वनप्रतीतिप्रसादित्यर्थः। ५तदेव पश्यति- तयाहीति। न चेति-अस्प 'क्षम्' इत्युत्तरेणान्यः। निषेधे हेतुमाह-क्षणिकादिविकल्पस्थापीति । कथं न क्षमिकादिविकल्पस्य परमार्थतो वस्तुविषयत्वमित्याकांक्षायामाह-वस्तुन इति।