________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३६५ वहिर्मुखाकारेण चन्दनादिभानेऽपि 'चन्दनीयं सुखमिदं जातम् । इत्यन्तर्मुखाकारेण सुखस्थापि तत्क्षणमेवानुभवात्, अतिरिक्ततज्ज्ञान-तत्सामग्र्यादिकल्पने गौरवात्। एतेन 'मानसत्वावच्छिन्नं. प्रति भानसाऽन्यज्ञानसामग्र्याः प्रतिबन्धातायां वैजात्येन सुख-दुःखयोरुत्तेजकत्वमेवास्तु' इत्यपि निरस्तम् , तदुत्तेजकत्वकल्पनायामपि ५वं याशकण्टकादिभाने दुःखस प्रत्ययस्तादृशकण्टकादिभाने भोगत्वमित्यर्थः, ननु चन्दनभाने' सुख सम्प्रत्ययो यदि भवेत् तदा तत्र भोगत्वकल्पनमुचितं तदेव तु नानुभवाविषय इत्यत आह-३६ - चन्दनमितीति । तत्क्षणमेव चन्दनभनिक्षणमेव । चन्दनशानभव सुखरूपं सुखस्य वसंवेदनरूपमित्युपगमेऽतिरिक्तसुखज्ञान तत्सामग्याच- ' कल्पनेन लाधवमपीत्याह- अतिरिगति- चन्दनज्ञानातिरिक्त्यर्थः । . तज्ज्ञानेति-सुखज्ञानेत्यर्थः। तत्सामयादीति-सुखज्ञानसामय्यादीत्यर्थः, आदिपदात् सुखज्ञानप्राणभाव-सुखज्ञानध्वंसाधुपाहः । एतेनेति-अस्य 'निरस्तम् ' इत्यनेनान्वयः। एतेन अतिरितसुखज्ञानादिकल्पनगौरवण, मानसत्वावच्छिन्नं प्रति मानसान्यज्ञानसामथ्या प्रतिबन्धक सुखदुःखोत्पत्तिकाले चन्दनादिस्पार्शनसामग्रीसत्वाचन्दनादिप्रत्यक्षमेव स्थाद न सुखादिमानलप्रत्यक्षमित्यस्य परिहाराय सुख-दु खानुगतवैजात्यावच्छिन्नाभावविशिष्टाया एव मानसान्यज्ञानसामग्या मानसत्वावच्छिन्नं प्रति प्रतिवन्धकत्वमुरीक्रियत इति सुख-दुःखान्यतर. सत्व निरूक्तवैजात्यावच्छिन्नप्रतियोगिताभावविशिष्टाया मानसान्य. शनिसामभ्या अभावान सुख-दुःखान्यवरविषयकमानसप्रत्यक्षानुपपत्तिरित्यर्थः। उत्तेजकत्वं च प्रतिवन्धकता-कारणतान्यतरावच्छेदकीभूताभावप्रतियोगित्वम् , प्रकृते मानसत्वावच्छिन्नप्रतिवध्यतानिरूपिता या निरुतजात्यावछिन्नप्रतियोगिताकाभावविशिष्टमानसान्यज्ञानसामग्रीनिष्ठप्रतिबन्धकतातदवच्छेदकीभूताभावप्रतियोगित्यात् सुख-दुःखयोरुत्तेजकत्वमिति बोध्यम् । एतेन' इत्यतिदिष्टमेव हेतुमुप