________________
३६४ ]
[ तत्वबोधिनीविकृतिविभूषितम् सत्र भोगा-यत्वनिवेशे गौरवात् , भोगत्वावच्छिन्न प्रति जात्येन सुखदुःखयोरेप हेतुत्वे भोगाख्यमानसे चन्दनादिभानानुपपत्ते, चन्दनादिभान एव विलक्षणे भोगत्वकल्पनौचित्यात् , 'इदं चन्दनम् ' इति प्रतिबन्धात्वमिति स स्थादेवत्यत आह- तति-मानसे इत्यर्थः।। भोगान्यमानसत्वावच्छिन्न प्रति बहिरिन्द्रियजन्यलौकिकप्रत्यक्षलायाः प्रतिबन्धकत्वकल्पनापेक्षया भानसत्वावच्छिन्नं प्रत्येक तस्याः प्रतिवन्धकत्वकल्पनस्य लाववादौचित्यारित्याशयः। अपि व भोगान्यमानसत्वावच्छिन्नं प्रति बहिरिन्द्रियजन्यलौकिक प्रत्यक्ष सामन्याः प्रतिबन्धकत्वे बहिरिन्द्रियजन्यलौकिकप्रत्यक्षसामग्रीकाले भोगान्यमानसं मा भवतु, भोगात्यमानर्स तु तदानों जायमान सुख-दुःखविषयकमिव घटादिविषयकमपि कि न स्यात् ? तस्य घटादिविषयकमानसरूपत्वेऽपि भोगान्यत्वाभावेन प्रतिवध्यतावच्छेदकधर्मानाकान्तत्वात् , तत्र घटादिविषयकत्वाभावार्थ यदि विषयतासम्बन्धेन भोगत्वावच्छिन्नं प्रति तादात्स्यसवन्धेन सुख-दुःखयोरेव कारणत्वम् , तत्र यद्यपि सुखत्वं दुःखत्वं वान कारणतारच्छेदकम् , सुखत्वेन कारणत्वे दुःखस्य, दुःखत्वेन कारणत्वे सुखस्य च भान -तत्र न स्यात् , तथापि सुख-दुःखोभयगतं वैज्ञात्यमभ्युपेत्य तद्रूपेण तयोरतन कारणत्वमुपेयत इति भोगविशेष सुखस्य मान भोगविशेषे च दुःखस्य भानमुपपद्यते, तदापि चन्दनसुखमिदम, शीत. वेदनेयम्' इति चन्दनादिभानं यद् भोगे भवति तन्न स्थादित्याहभोगमावच्छिन्न प्रनीति। . जात्येन · सुख-दुःखोभयगतजात्यविशेषण । 'मुख-दुःखयोरेव' इत्येवकारेण सुख-दुःखभिन्नस्य हेतुत्वव्यवच्छेदः । सुख दुःखान्यतरविषयकलौकिकमानससाक्षात्कार भोगत्वकल्पनापेक्षया विलक्षणे 'चन्दनादिभाने भोगत्वकल्पने नानान्तरालपनप्रयुक्तलाघवमपीत्याह- चन्दनादिभान एवेति। चन्दनादिभानम् इद चन्दनम्' इत्यापि, तच्च न भोगरूपमत आह'- विलक्षणे इति, तथा चयादशचन्दनमाने सुखल प्रत्ययस्तादृशचन्दनमाने भोगत्वम् ,