________________
१४
कालं शुभं परीक्षेत मङ्गलावाप्तिसाधकम् ।
अथ देशभेदेन कालपरीक्षा ॥
देशभेदेन कालोsपि भिन्नतां प्रतिपद्यते ॥ ५ ॥ इष्टिकान्यसनं शस्तं शुभकाले विशेषतः । तस्मात्सर्वप्रयत्नेन शुभं कालं न लङ्घयेत् || ६ ||
अथ दिनिर्णयक्रमः ॥
प्राचीं परीक्षयेत्सम्यक्सूर्यगत्वनुमानतः । गृहीतस्थल के 'शङ्कुमवटे स्थापयेत्क्रमात् ॥ ७ ॥
देशभेदेनेति । भारतारूपोऽयं वर्ष: षट्पञ्चाशद्देशभेदेन विभक्तः । तत्र विन्ध्यस्योत्तरभागे चत्वारिंशदेशाः । विन्ध्यस्य दक्षिणे भागेऽवशिष्टा इति शिष्टाः । तेषु देशेषु पुष्कलावर्तकादिजीमूतप्रसरणतदभावाभ्यां कचिद्वर्षाकालः, कचिद्रीष्मकाल इत्येवं कालवैपरीत्यस्य देशभेदेन दृष्टत्वात् कालस्य भिन्नत्वमुपपादितम् । तस्मादङ्गादिमेषु देशेषु वर्षाकालं ग्रीष्मकालं च परित्यज्य कालान्तरे शुभे मुहूर्ते प्रथमेष्टिकान्यसनपुरस्सरं भवननिर्माणयतनं धनधान्यादि सर्व संपत्करमिति निमित्तज्ञाः ॥
अथ सर्वेष्वपि निर्माणेषु सम्यक् प्रमाणपरिज्ञानार्थं
1. Gnomon or Sundial for determining the true East, West, North and South.