________________
अथ दिनिर्णयकथनं नाम
तृतीयोऽध्यायः ॥
आदौ कालं परीक्षेत सर्वकार्यार्थसिद्धये । कालो हि सर्वजीवानां शुभाशुभफलप्रदः ॥ १ ॥
कालातिक्रमणे दोषो द्रव्यहानिश्च जायते । देवानामपि देवीनां विप्रादीनां विशेषतः ॥ २ ॥
प्रासादभवनारम्भे स्तम्भस्थापनकर्मणि । द्वारस्थापनवेलायां भवनानां प्रवेश || ३ |
वापीतटाकनिर्माणे गोपुरारम्भकर्मणि । विमानमण्डपारामगर्भगेोद्धृतों तथा ॥ ४ ॥
तृतीयोऽध्यायः ॥
1
आदौ कालमिति । परमेश्वराज्ञया संकल्पितः सूर्यादि - प्रहपरिवर्तनेन वसन्तोऽयं कालः, प्रीष्मोऽयं काल इति व्यवहियमाणः समयो यः शुभफलप्रद इति ज्योतिस्तन्त्रपारगैनिर्णीतः, तस्मिन्नेव समये स्वजन्मनक्षत्राद्यानुकूल्यभाजि प्रासादभवनादिनिर्माणं कार्यमिति भावः । देवानां देवीनामालयनिर्माण विशेषतो विप्रादिचतुर्वर्णजानां गृहारम्भे चेदं शुभकालनिरीक्षणं श्रेयस्करमिति बोध्यम् ||