________________
१२
चातुर्वर्ण्यगृहाणाश्थ लक्षणं बहुधा स्मृतम् ।
1
वेदिका' पोतिका सन्धिबन्धनावरणेषु च ।। ३८ ।।
स्तम्भादिकेच निर्माणे विशेषभवनेषु च । मण्डपेषु विमानेषु प्राकारादिषु यन्मतम् || ३९ ॥ लक्षणं बहुधा प्रोक्तं नानादेशविभागशः । सकलं तच्च संक्षिप्य वक्ष्ये ऽध्यायक्रमादहम् ॥ ४० इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे विश्वकर्मकृतशिवस्तुतिकथनपरमेश्वरकृतवरप्रसादकथनं नाम
द्वितीयोऽध्यायः ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्म वास्तुशास्त्रव्याख्यायां द्वितीयोऽध्यायः
1,
Raised platform