________________
११
शास्त्रेणानेन सर्वस्य लोकस्य परमं सुखम् । चतुर्वर्गफलप्राप्तिस्सल्लोकच भवेद्ध्रुवम् ॥ ३० ॥ शिल्पशास्त्रपरिज्ञानान्मर्त्योऽपि सुरतां व्रजेत् । परमानन्दजनकं देवानामिदमीरितम् ॥ ३१ ॥
शिल्पं विना नहि जगत्त्रिषु लोकेषु विद्यते । जगद्विना न शिल्पञ्च वर्तते वासव प्रभो ॥ ३२ ॥ अतो लोकेषु सर्वेषु शिल्पं बहुविधं ततम् । ग्रामाणाश्च पुरीणाश्च लक्षणं बहुधा स्मृतम् ॥ ३३ ॥
खेटकर्वटकादीनां दुर्गाणामपि लक्षणम् । प्रासादेषु च हर्म्येषु देवानां भूभुजामपि ॥ ३४ ॥
1
विविधेष्वपि निर्माणेष्वपि सन्दूप्यकं बहु भवने न्यायशालायां सभायां कोशसद्मनि ॥ ३५ ॥
अन्तःपुरे शस्त्रगेहे शालासु विविधासु च । क्रीडागेहेषु रम्येषु तोरणादिषु' मञ्जिके || ३६ ॥
3
अधिष्ठानोपपीठेषु' गोपुरेषु तथा बहु ।
सङ्कीर्ण भवनाढ्येषु पताकापारिभद्रके || ३७ ||
1.
2.
3.
Arch and its supports at the main gate etc. Pedestal placed above the base
Towers