________________
१५
खदिरस्तिन्दुको वापि क्षीरवृक्षसमुद्भवः । शङ्कुः श्रेयस्करः प्रोक्तो द्वादशाङ्गुलमानभाक् ||८||
हस्तप्रमाणतो वापि द्विहस्तो देवमन्दिरे । शङ्कोरुपरि मानस्य सूचिका सा शिखा मता ॥ ९ ॥
यत्र सा पतति व्यक्ता तत्स्थानं बिन्दुसंज्ञकम् । शिल्पाचार्यवरैः शङ्कुस्थापनं कल्पयेद्बुधः ॥ १० ॥
प्राच्यादिदिनिर्णयक्रममाचष्टे 'प्राचीं परीक्षयेत्' इत्यादिभिः पश्ञ्चदशभिः श्लोकैः । प्रासादादितत्तन्निर्माणाय संगृहीतायां भूमौ सूर्यगतिपरिज्ञानात् प्राच्यादिदिनिर्णयाथं शङ्कस्थापनमाचरेत् । खदिरवृक्षेण वा तिन्दुकवृक्षेण वाऽन्यक्षीरवृक्षेण वा शङ्काः कल्पनं प्रशस्तन् । तादृशशङ्कोर्दैर्ध्य तावत् द्वादशाङ्गुलप्रमाणम् । अथवा एक हस्तप्रमाणम् । लक्षणमिदं मानुषभवननिर्माणाय प्रोक्तमिति भावः । देवालयादिषु तावच्छङकुः द्विहस्तप्रमाणकः कार्यः ॥
सूर्यच्छायापरिज्ञानार्थं शङ्कोर्मस्तके कल्पिता सूक्ष्मसूचिका कर्णिकाकारा शिखेत्युच्यते । सूर्यच्छायासमेता तादृशशंकुशिखा मण्डले यत्र निपतति तत्स्थानं बिन्दुसंज्ञकमिति प्रतीतिः । एतादृशलक्षणान्त्रितशङ्कुस्थापनं शिल्पाचार्यवरैः गृहपतिर्बुधः कारयेत् । शकुच्छायापरिज्ञानार्थं निर्माणाय परिगृहीतायां