________________
१६
चक्राकारे नेमियुक्ते मण्डले शङ्कुभासुरे । शङ्कुच्छायाप्रसारस्तु यत्र भाति सलक्षणः ॥ ११ ॥ तं प्रदेशं निरीक्ष्यैव प्राचीनिर्णयमादिशेत् । उत्तरायण मासेषु दक्षिणायनगेष्वपि ।। १२ ।।
कन्यायां वृषभे मासि यदि व्यक्ते दिवाकरे । शङ्कुच्छाया मध्यगा स्यान्नहि पार्श्वे कदाचन || शुद्धभूमौ नेमिद्वययुक्तं मण्डलं विच्छित्तिविशेषसहितं बा कल्पयेत् । तन्मण्डलस्य मध्ये शकुं निखातयेदिति भावः ॥
शङ्कुस्थापनक्रिया तावद्वैच्छिकमासेषु कार्या । प्रात:काले सायङ्काले वा शङ्कुस्थापने कृते शकुगता मार्तण्डच्छाया पूवोक्तनेमिद्वययुक्तमण्डले धनुराकारप्रदेशगा स्यात् । धनुराकारप्रदेशगा मार्तण्डच्छाया शङ्कोर्मध्यस्थानरेखायाः सव्यभागगता उतापसव्यभागगता भवेदिति भावः ॥
साहश
यथा वोत्तरायण मासेषु शङ्कुस्थापने कृते शकुगता सूर्यच्छाया मण्डलमध्यभागस्य दक्षिणभागगा स्यात्, तथा दक्षिणायनमासेषु शङ्कुस्थापने कृते शकुगता सूर्यच्छाया मण्डलमध्यभागस्योत्तरभागस्थिता स्यादिति क्रमः । कन्याराशि गते सति वा शङ्कुच्छ | या पार्श्वगा न भवेत् । तथैव वृषभराशि गते सति रखौ शङ्कुच्छाया न पार्श्वभागगा स्थात् ।