________________
यचित्रं यच्च सन्दप्यं तैतलं यच्च कीर्तितम् ॥ १४ ॥ तेषामस्तु परिस्फूर्तिः परिज्ञानश्च मद्धृदि ।
'यन्मानं या क्रिया' इत्ययं श्लोको व्याख्यायते । यथादेवमानुषप्रासादेषु अन्येषु मण्डपादिषु निर्माणेषु यन्मानमुक्तं-- दैर्ध्यायामनिनोन्नतसोपानकवाटादिमानं प्रमाणम् । या क्रिया भित्तिकल्पनद्वारस्थापनगवाक्षस्थापनादिका । या च भक्तिः कृतिमभासुरा ; भक्तिस्ताव द्वहुविधा । सोपानपार्थादिषु सुधया निर्माणं भक्तिरिति सामान्याक्रिया । भाक्तविशेषलक्षणं तावदने प्रपञ्च्यते । तत्र तत्र निर्माणस्थलविशेषादिके नयनसुख संपादनार्थ कल्पितं कृत्रिमभासुराख्यं चित्रविशेषादिलक्षणं चाग्रे वक्ष्यामः । चित्रशब्दार्थस्सुगमः ॥
___ सन्दप्यामिति । सन्दूप्यं नाम भवनहर्म्यप्रासादादिषु मुखद्वारोभयपक्षयोः कल्पिता त्रिकोणाकारा, कचि द्वर्तुलाकारा, कचिच्च चतुरश्रा प्रोन्नता भूमिः (Genz) उच्यते ॥
2. Actual construction of walls etc. 3. Balustrade. 4. Artistic adjuuct. 5. Ornamental structures rising on either
side of a doorway. 6. The seats for the Dwara Palas (Door
keeps) on either side of the main gate of a temple.