SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कार्येषु विविधेष्वन्यन्मानं यच्च प्रकीर्तितम् ॥ १५ ॥ अधिष्ठानो 'पपीठा'दिकार्य जालेषु यन्मतम् । तत्प्रमाणपरिज्ञानमस्तु मे त्वदनुग्रहात् ॥ १६ ॥ इति गद्गदया वाचा स्तुवन्तं शिवसन्निधौ । पिनाकी प्लावयचे कटाक्षै। शीतलैः स्वकैः ॥ १७ ॥ पिनाक्युवाच - विश्वकर्मन्महाबाहो प्रार्थितं यत्त्वया शुभम् । तत्सर्व सिध्यतु क्षेत्रक्षेमाय तत्र सुव्रत ।। १८ ।। दिव्या शक्तिः परं तेजः सिध्यतु त्वत्करे शुभे । मदाज्ञया स्वं लोकानां निर्माणादिषु कौशलम् ॥ लभस्व च शुभां कीर्ति सर्वलोकहिताय च । इत आरभ्य देवेश भवनादिक्रिया भुवि ॥ २० ॥ दिवि पाताललोके च त्वदुपज्ञा भवेद्ध्रुवम् । स्थपत्यादिषु वर्णेषु त्वमेवोत्तमतां व्रज ॥ २१ ॥ तैलमिति । तैलं नाम देवप्रासादमुखद्वारेपूमयपक्षयोः द्वारपालकबिम्बस्थापनार्थं कल्पिता भूमिरुच्यते । एतेषां लक्षणज्ञानं क्रियाशक्तिश्च मे भूयादिति विश्वकर्मणो बरयाचनमिति भावः ॥ 1. Base. 2. The next support above the base. 8. s. 2
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy