________________
कटाक्षसुधया सिञ्चन्नुवाच गिरिजापतिः ॥ ७ ॥ ईश्वर उवाचविश्वकर्मस्तव स्तुत्याऽनया तुष्टोऽस्मि दिव्यया । उवाच लोकमातेयं सन्तुष्टा हितकालिगी ॥ ८ ॥ मत्तो वरं वृणीष्व त्वं यत्ते मनसि वर्तते । इत्युक्तो देवदेवेन शङ्करेण महात्मना ॥ ९ ॥ ययाचे वरदं दिव्यं विश्वकर्मा वरं तदा । विश्वकर्मोवाच
शम्भो जगत्पते नाथ यदि ते मय्यनुग्रहः ॥ १० ॥ स्तुत्या प्रसीदसि त्वं मत्कृतया चन्द्रशेखर । वास्तुशास्त्रप्रकाशोऽस्तु मञ्चित्ते तव वीक्षणात् ॥ देवगन्धर्वमनुजप्रासादेषु गृहेषु च । मण्डपेषु विमानेषु गोपुरे तोरणेऽपि च ॥ १२ ॥ सोपानेषु प्रतोलीषु वापीकूपादिकेषु च । विविधासु च शालासु चन्द्रशालादिकेषु च ॥ १३ ।। यन्मानं या क्रिया या च भक्तिः कृत्रिमभासुरा ।
1. Proportion of length, breadth, height,
depth etc. of the various parts of buildings for men and for deities.