________________
अथ द्वितीयोऽध्यायः॥ विश्वकर्मशिवस्तुतिः॥
नमः कैलासनाथाय पशूनां पतये नमः । नमोऽष्टमूर्तये गौरीकमनाय नमो नमः ॥ १॥ नमाऽस्तु शूलिने लोकरक्षकाय नमा नमः । नमो रुद्र नमश्शम्भो नमो लोकैककारण ॥ २॥ नमो यज्ञाधिपतये देवेशाय नमो नमः । लोकाधार जगन्मूर्ते वेदवेदान्तसन्नुत ॥ ३ ॥ त्वत्तः किल समुद्भूतं जगत्स्थावरजङ्गमम् । त्वामाराध्यैव शास्त्रार्थः ज्ञायते परमर्षिभिः ॥ ४ ॥ देवैरपि स्थितिः प्राप्ता शाश्वती त्वत्प्रसादतः । चतुर्वर्गफलं पुभिः प्राप्यते त्वत्प्रसादतः ॥ ५ ॥ त्वया संरक्ष्यते सर्व जगच सचराचरम् ।।
त्वया संवीक्षितो लोके परमं सुखमश्नुते ॥ ६ ॥ विश्वकर्मणे परमेश्वरकृतवरदानम् ॥ इति स्तुवन्तं त्वष्टारं बद्धाञ्जलिपुटं शिवः ।
॥द्वितीयोऽध्यायः॥ अथेह द्वितीयाध्याये ‘नमः कैलासनाथाय' इत्यादि 'विविधासु च शालासु' इत्यन्तं सुगमम् ॥