________________
प्रहृष्टमनसा देव्या पार्वत्या सह शङ्करः । दिव्यं मण्डपमासाद्य सुवर्णमणिभूषितम् ॥ ३ ॥ माणिक्यस्तम्भशोभाढ्यं मकराननतोरणम् । शीतलेन कटाक्षेण महर्षीणाञ्च योगिनाम् ॥ ४॥ देवानामपि चाह्लादं वर्धयन्भक्तवत्सलः । भजन्परममानन्दं रेजे दिव्यासने शुभे ॥ ५॥ तदा देवसमूहन सेवितो वासवो मुदा । ऐरावतं समारुह्य प्राप कैलासमादरात् ।। ६ ॥ तत्रानन्दमये दिव्ये मण्डपे मणिभूषिते । लोकाम्बया समाविष्टं सर्वलोकनमस्कृतम् ।। ७ ।। भुजङ्गभूषितं व्यक्षं सर्वकामफलप्रदम् । सर्वशक्तिमयं शम्भुं वीक्ष्य भक्तिप्रचोदितः ॥ ८ ॥ अवतीर्य गजात्तर्ण प्रणिपत्य पुरन्दरः । कल्पवृक्षसुमैर्दिव्यैश्शम्भोः पादाम्बुजार्चनम् ॥ ९॥ विधाय मघवा भक्त्या बद्धाञ्जलिपुटस्तदा । तुष्टाव परमेशानं सर्वलोकैकनायकम् ।। १०॥ अथ इन्द्रकृतशिवस्तुतिः। प्रसीद परमेशान पार्वतीश जगत्पते । पाहि नो देवदेवेश तब पादैकसेविनः ।। ११ ॥