________________
तव प्रसादात्सर्वाणि भूतानीमानि शङ्कर । तरन्ति सर्वा विपदो भजन्ति च परां मुदम् ॥ १२ ॥ त्वत्प्रसादेन लोकेश जगत्स्थावरजङ्गमम् । भजते परमानन्दं शाश्वती च शुभां गतिम् ॥ १३ ॥ त्वमादिदेवो भूतानां रक्षको भक्तवत्सलः । सर्वशक्तिमयं सर्वलोकानामपि कारणम् ॥ १४ ॥ भजन्ति त्वां महेशान योगान्ते परमर्षयः । सर्वेषामपि भूतानां त्वमेव परमा गतिः ।। १५ ॥ इति स्तुवति जम्भारो भक्त्या परमया युते । शीतलेन कटाक्षेण वीक्ष्य गौरीपतिस्तदा ॥ १६ ॥ अभयं सर्वभूतिश्च वासवाय ददौ विभुः । अथ नन्दिकृतविश्वकर्मप्रेरणम् ॥ तस्मिन्नवसरे नन्दी शिवभक्तिपरायणः ॥ १७॥ प्रणम्य शङ्करं लोकशङ्करं सर्वदैवतम् । बद्धाञ्जलिपुटः ... ... ... ... तम् ॥ १८ ॥ आहूय विश्वकर्माणं पार्श्ववर्तिनमादरात् । चोदयामास हर्षेण नन्दी लोकहिते रतः ॥ १९ ॥ शङ्करस्याशयज्ञेन नन्दिदेवेन धीमता । प्रचोदितो विश्वकर्मा तुष्टाव गिरिजापतिम् ॥ २० ॥