SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सुवर्णरत्नसन्दोहप्रभाकवचिताम्बरे । दर्शनादेव देवानामपि सर्वफलप्रदे ॥ २ ॥ गुरोः प्रसादान्मन्दोऽपि अहं शक्तः प्रसन्न धीः । विश्वकर्मकृतेर्भाव व्याकरोमि कचित्कचित् ॥ २ ॥ प्रमाणबोधिनी व्याख्यामिमामुद्वाक्ष्य साधवः । सृजन्तु मयि स ... ... ... ... ॥ ३ ॥ सर्वलोकहितार्थाय प्रणीतं विश्वकर्मणा । वास्तुशास्त्रमिदं पूर्व सुरलोके प्रतिष्ठितम् ॥ ४ ॥ ततः कालेन महता मुनयः शौनकादयः । श्रुत्वा सूतमुखादेतद्भेजिरे परमां मुदम् ॥ ५ ॥ तदाप्रभृति लोकेऽस्मिन्स्थपत्यादिभिरादरान् । प्रवर्तितमिदं वास्तुशास्त्रं सर्वफलप्रदम् ।। ६ ॥ अथ तत्रभवान् परमेश्वरप्रसादलब्धदिव्यशक्तिः प्रख्यातनामा दिव्यो विश्वकर्मा सर्वलोकहितप्रदं वास्तुशास्त्रमिदं प्रणिनाय । तत्रादौ 'आशीर्नमस्क्रिया वस्तुनिर्देशो वा' इत्यादिप्रमाणप्रसिद्धं वस्तुनिर्देशात्मकमिदं महच्छास्त्रं 'पुरा कैलासशिखरे' इत्यारब्धवान् । पुरा किल कैलासपर्वते देवदेवस्य गौरीपतेइशङ्करस्य सभां प्रति इन्द्रादीनामागमनं सञ्जातम् ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy