________________
॥ श्रीगणाधिपतये नमः ॥
॥ विश्वकर्मवास्तुशास्त्रम् ॥
दिव्येन विश्वकर्मणा विरचितम् ।
श्रीमदनन्तकृष्णभट्टारकविरचितप्रमाणबोधिन्याख्यया व्याख्यया समेतम् ॥
॥ प्रथमोऽध्यायः ॥ तत्र कैलासं प्रति इन्द्रादीनामागमनम् ॥
पुरा कैलासशिखरे मुनिवृन्दनिषेविते । देवकिन्नर यक्षेशस्तुतिनादितदिङ्मुखे || १ |
|| व्याख्यानमारम्भः ॥ ॥ प्रथमोऽध्यायः ॥
अजमव्यक्तमीशानमनन्तं जगतां पतिम् । नमामि सूरिभिर्येयं नमताभिष्टदायिनम् ॥ १ ॥