________________
८१४
पूर्वपापनिरासाय नमनं देवतार्चनम् ।
उत्तराघनिरासाय प्रतिष्ठादिरुदीरितः ।। १५ ।
तस्मात्सर्वप्रयत्नेन देवान्देवीश्च नित्यशः । शुभवास्तुतले शुद्धद्रव्यैः पूजां च कारयेत् ॥ १६ ॥
ब्राह्मणाः क्षत्रियाश्वान्ये स्वधर्मनिरताश्च ये । देवार्पितमनोभावास्तत्कैङ्कर्य दृढव्रताः ।
भक्त्या निर्धूतपापास्ते क्षेमभाजो न संशयः ॥ १७ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे प्रतिमापूजनभजनादिफलकथनं नाम षडशीतितमोऽध्यायः ॥
कारस्याशीर्वचनक्रमश्व ज्ञेयः । अपि च बेरेष्वावाहितशक्तीनां देवानां पुरोभागे प्रणमनभजनस्तुत्यादिकन्तु पूर्वजन्म पापराशिनिरासनाय भवति 1 तादृशमाहात्म्यनिकेतनस्य देवस्य प्रतिष्ठाद्याचरणेनागामिपापराशिनिरेधश्वेति प्राचां महर्षीणां वचनरीत्या सर्वेऽपि मानवाः स्वकुलधर्माचारादीननतिक्रम्यैव देवभक्तिभाजो देवकैर्यनिरताश्च भवितव्याः । एवं देवभक्तिभासुराणामेव जनानां सकलविध श्रेयः प्राप्तिरिति देवतापूजनभजनादिफलकथनं शास्त्रकारेण सङ्ग्रहेणोक्तं बोध्यम ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां प्रतिमापूजनभजनादिफलकथनं नाम
षडशीतितमोऽन्यायः ॥