________________
देवार्पितक्रियामारो यः करोति नरो भुवि । भजनं पूजनं स्तोत्रं स मान्यो दिविषद्गणैः ॥११॥ तुलसीबिल्वपत्रैश्च कुसुमैर्विविधैरपि । पूजां करोति यो भक्त्या दिव्ये लोके महीयते ॥
ध्यात्वा तु शास्त्रकर्तारं विश्वकर्माणमादरात् । करोति देवतागारं यस्स मान्यो मनीषिणाम् ॥ १३ ॥ गोपुरस्थापनं भूमेरर्पणश्चोत्सवक्रिया ।
तटाकनिर्माणमपि श्रेयोवर्धनमीरितम् ॥ १४ ॥ सर्वशक्तिभंगवान्मया स्वप्रीतये स्वयमेव कारयीत्यादिनिश्चयं कृत्वा देवतानां पूजननमनस्तोत्रोत्सवादिकार्यव्यप्रमतेः भक्तस्य वृत्तं देवगणैरपि मान्यं भवति । किश्चात्र लोके यश्च पुमान् देवभक्तिभासुरस्तुल सीवनं, बिल्ववनं, कुसुमलता वा वर्धयति, तद्वर्धनाय भूमिं प्रददाति, तैश्च कुसुमजालेदेवार्चनं करोति स तु पुण्यशाली देहावसाने स्वर्गलोके देवगणमानितो विराजते ॥
अपि च यश्च पुमान् लोके देवालयनिर्माणाय शास्त्रस्यास्य प्रणेतारं दिव्यं विश्वकर्माणं दिव्यशक्तिं शुद्धन स्वचेतसा ध्यायति, यश्च पुभाननन्यभक्तिर्देवतागारं कारयति करोति वा, यश्च पुमान गोपुरनिर्माणं करोति तदर्थ भूम्यादि. द्रव्यप्रदाता चैते सर्वेऽनन्तश्रेयोभाजो विराजन्त इति शास्त्र