________________
८१२
पुत्रार्थी पुत्रमाप्रोति धनार्थी धनमाप्नुयात् । राज्ये विजयते राजा रोगी रोगविमुक्तिभाक् ॥ ८ ॥
अनन्यमान से भक्तैर्दीयते यत्तु भूरिशः । तेन प्रसीदन्ति देवास्ते सर्वे मङ्गलप्रदाः ॥ ९ ॥
देवताभक्तिमाहात्म्याद्विपदो यान्ति दूरतः । संपच्च महती तेषां प्रदत्ता यैर्वसुन्धरा ॥ १० ॥
किश्चैवं समप्राराधननिर्वहणार्थं धनभूम्यादिद्रव्यप्रदाता पुत्ररहितोऽपि देवतानुग्रह भून्ना पुत्रं प्राप्नुयादिति शास्त्रकारस्य आशीर्वचनफलकथनम् ; एवमुत्तरत्रापि ज्ञेयमिति मतिः । धनार्थी धनमाप्नुयात् । विजयार्थी राजा विजयमाप्नुयात् । तस्मादेवं ब्राह्मणादयस्सर्वेऽपि जना अनन्यभावेर्मनोभिरशुद्धेर्देवालयादिनिर्माणाय द्रव्याणि प्रदत्तवन्तो यदि तान्प्रति सर्वा अपि देवताः प्रसन्ना भत्रेयुः तेषां बहुविधमङ्गलप्रदायिन्यश्च । किव स्थपतितक्षकादिशिल्पाचार्यवगैः प्रकल्पितेषु देवताशक्त्यारोपणानन्तरं तेषु देवेषु अन्यादृशी भक्तिः कृता चेत्तेषां भक्तानां सर्वा अपि विपदस्स्वयमेव दूरतो यान्ति मङ्गलावाप्तिश्च भवति ॥
"
किन देवालयस्थापनार्थं देवालयतटाकनिर्माणार्थं भूमिप्रदातुः देवस्य नैवेद्यादिकार्य निर्वहणाय भूमिप्रदातुश्च शाश्वतलोकप्राप्तिरिलोके महती च संपवर्धते । किञ्च सर्वमपि क्रियाजाल