________________
करगीय एव; न तु भक्तानां गरुडादीनां स्वाचार्यपर्यन्तानामिति । परन्तु लोकगुरोराचार्यादेः प्रतिसंवत्मरं तदाविर्भावदिननक्षत्रे विशेषत उत्सवः कार्य इति नियमः । किश्च सर्वत्र देशेषु शिवमन्दिरे वा विष्णुमन्दिरे वा करणीयमंवत्सरोत्सव समयस्तावदशदिनावधिक इति केचिन् । नवदिनावधिक इत्यन्ये । अब तु विषये वैग्वानसपाश्चरात्रशैवागमादिवचनप्रमाणमेव शरणमिति सम्तः ॥
किञ्च ब्रह्मोत्सवाख्य संवत्सरोत्सवानुष्ठानक्रमस्तु सङ्ग्रहेणात्र प्रतिपाद्यते । यथा - पूर्वप्रतिपादितरीत्या उत्तरायण काले मकराशुचितमासेषु निर्दिनन नदिनात्पूर्व दश दिनान्युत्सवदिनानीति मतिः । तत्र तेषां दशदिनानां पूर्वदिने प्राता सायं दीक्षितो, भट्टारको रङ्गवल्लीवितानतोरणाद्यलकृतदेवालययागशालां प्रविश्य, तत्राग्निकुण्डेवाहुनीशान्तिप्रतिपादका हुत्वा तेषां मूलबेराणामुत्सवबेराणाञ्चाभिषेककालक्रियादीन्कारयित्वा देवालये प्रतिप्राकारतल. मष्टास्वपि दिग्भागेष्वावाहितानां दिक्पालानां रोगशोषमित्रादिवास्तुनाथदेवादीनाञ्च बलिं प्रदापयित्वा सन्निधिवीथ्यां वा देवालयप्राकारतले वा देवचंक्रमणं च कारयित्वा ततो ध्वजस्तम्भे गरुडरूपाङ्कितं वृषभरूपांकितं वा नवपट्टवस्त्रमारोपयेत् । एवं पूर्वदिनरात्रौ ध्वजपटारोपणानन्तरं ब्राह्मणैस्वस्तिवाचनादिकं पाठयित्वा प्रथमोत्सवदिने प्रातः पूर्वोक्तकल्पवृक्षवाहने सदेवीकस्योत्सवबेरस्यारोपणं च विरचय्य प्रामवीथीनगरवीथ्यादिस्थलेषु