________________
८.४
मेषादौ च महः कार्यों देवप्रीतिकरे दिने ॥४॥
क्षेत्रमाहात्म्यनिर्दिष्टवासरे वा विशेषतः ।
अथ नैमित्तिकोत्सव समयक्रमं व्यनक्ति- मेषादौ च महः कार्यमिति। तत्तत्क्षेत्रमाहात्म्यपुराणादिग्रन्थनिर्दिष्टदिनानि विशेषेण देवप्रीतिकरदिनानि नैमित्तिकोत्सवकाल इति च परिपाटी । अस्य विशदार्थस्तु - मेषमासे वा वृषभमासे वा वसन्तोत्सवः कार्यः। मिथुनमासे ग्रीष्मोत्सवः, सिममासे वार्षिकोत्सवः, पवित्रारोपणोत्सवश्व कार्यः । एवं कन्यामासे शमीवृक्षताउनोत्सवो नवरात्रमण्डपोत्सवश्व कार्य इति क्रमः । एवं तुलामासि शरत्कालोत्सवः, कार्तिकमासे कृत्तिकादीपोत्सवः, धनुर्मासे तत्तत्क्षेत्रदेवमाहात्म्यव्यक्तीकरणनक्षत्रोत्सव:,मकरमासे प्लवोत्सवः, कुम्भमासे दमनिकोत्सवः, मीनमासे तत्तद्देव्या साकं विशेषतो विवाहोत्सवश्व कार्य इति क्रमः ॥
किश्च सर्वत्र शिवमन्दिरेषु, विष्णुमन्दिरेषु प्रामवास्तुनगरवास्तुदेवालयवास्तुस्थानेषु च प्रतिसंवत्सरं मकरमासे वा मीनमासे वा मेषमासे वा वृषभमासे वा मिथुनमासे वा वास्तुदेवदिक्पालाद्यावाहनपूर्वकं वार्षिकोत्सवश्च करणीयः। अस्यैव ब्रह्मोत्सव इति नामान्तरम् । कुतः ? प्रथमतः पूर्वभागे ब्रह्मणाऽऽरब्धत्वात् । अयन्तु ब्रह्मोत्सवस्सर्वासामपि देवीनाश्च