________________
देवानामुत्सवा कार्यस्सर्वक्षेमकरो मतः । नित्यो नैमित्तिकश्चायं विभक्तश्शास्त्रपारंगैः ॥२ ।। मेषादिसंक्रमे दर्शे पूर्णिमायां विशेषतः । स्थापनःऽथवा राज्ञो जन्मः दीक्षितस्य वा ॥३॥
स्थानकल्पयितुर्वाऽपि मासः सुखहेतवे ।
तस्मादत्र शास्त्रकारस्तादृशोत्सवकालं व्यनक्ति-देवानामुत्सका कार्य इत्यादिना । किश्च तादृशोत्सवाद्याचरणेन किंवा फलमिति चेत्तदाह - सर्वक्षेमकर इति । सर्वेषामपि जीवानामायुरारोग्यैश्वर्याधनेकविधश्रेयोवर्धनहेतुरुत्सवाचरणमिति । एवं देवानां प्रीतिवर्धकः प्राणिनां क्षेमजनकः उत्सवकालस्तावहिधा विभक्तः। यथा - नित्योत्सवकालो नैमित्तिकोत्सवकालश्चेति । किञ्च तत्राद्यस्य पर्वोत्सवकाल इति नामान्तरं केचिदुशन्ति । द्वितीयस्य विशेषोत्सवकाल इति । तत्र मेषमासवृषभमासादि. द्वादशमासाविर्भावसमय: प्रतिमासममावास्यादिनानि पौर्णमासीदिनानि च नित्योत्सवकाल इत्यर्थः । किन यस्मिन्नक्षत्रे देवालयगर्भगृहवेदिकायां मूलबेरादिस्थापनं कृतं, प्रतिमासमागमनशीलानि तानि नक्षत्राणि = नक्षवदिनानि ताहराप्रतिष्ठाकारमितुर्देवालयस्थापयितुर्षा भूपालस्य वा दीक्षितस्य जन्मनक्षत्र. दिनानि च नित्योत्सवकाल इति कमा ।