________________
अथोत्सवकालनिर्णयकथनं नाम
पश्चाशीतितमोऽध्यायः॥ शुभमासि सुनक्षत्रे दृष्ट च सुनिमित्तके । प्रतिष्ठितानां यन्त्रज्ञैर्दीक्षितैश्च पुरोहितैः ॥ १॥
पञ्चाशीतितमोऽध्यायः॥ पूर्वाध्यायप्रतिपादितरीत्या निर्मापणीयेषु कल्पवृक्षादिवाहनेषु देवबेरारोपणं कस्मिन्वा समये कार्यमित्याकाङ्कायां तदर्थमुत्सवकालनिर्णयकथनात्मकमेतं पञ्चाशीतितमाध्याये विशिनष्टिशुभमासीत्यादिना । पाश्चरात्रवैखानसशैवागमादिशास्त्रेपु प्रतिपादितरीत्या शास्त्र मूलबेरपादाम्बुजस्याधोभागे स्थापनीययन्त्रमातृकाबीजाक्षरादिविन्यासः दीक्षितर्भट्टारकाचार्यश्शुभमासेषु मकरमेषवृषभसिमकार्तिकादिषु शुभयोगशुभकरणसहिते सुमुहूर्ते प्रथमतः पूर्वोक्तगर्भगृहमध्यस्थितदेववेदिकायां मूलबेरस्थापनं जटिबन्धनमातृबीजाक्षरयन्त्र पट्टादिविन्यासपूर्वकं कार्यम् । ततस्तस्मिन्नेव शुभसमये उत्सवराणामन्येषां द्वारपालादिधेराणाश्च स्थापन कार्यम् । किञ्च तस्मिन्नेव समये नदति मङ्गलवायजाले तथा स्थापितानां तेषां बेराणामपि सर्वेषामभिषेकालक्रियापूजनं नैवेद्योपचारादिकं यथाक्रमं कारयेदित्यागमप्रमाणानुसारेण देवघेरप्रतिष्ठानन्तरं तेषां हरिहरादीनां देवानां मनाप्रीतिकरमुत्सवादिकं तेषु तेषु कालेषु कार्यमित्युपदेशः पुराणप्रतिपादित एव ।।