________________
८०१
तत्तद्देवस्वरूपानुरूपं वाहनकल्पनम् । नानारूपं वितानादियुक्तं सर्वत्र कारयेत् ॥ २५ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे कल्पवृक्षादिवाहनलक्षणकथनं नाम
चतुरशीतितमोऽध्यायः॥ तदुपरि विमानशिखराधिष्ठानं सचित्रं सवितानं सवितानपट गरुडवृषादितत्तचिह्नोपेतं प्रकल्पयेदिति सङ्ग्रहेण रथनिर्माणलक्षणमुक्तं ज्ञेयम् ! विस्तरेण लक्षणान्तराणि तु रथलक्षणाख्यशिल्पग्रन्थे ज्ञेयानीति भावः ।।
किञ्चैवमत्रोक्तानां सर्वेषामपि वाहनानां स्ववित्तादिविभवानुगुणं राजतसौवर्णपट्टाच्छाद नादिकं तत्र तत्र सर्वतो दिङ्मध्यभागेषु द्वारपालकतुरगादियोजनञ्च कामिति नियमः । किश्तेषां वाहनानां तत्तदङ्ग निर्माणप्रमाणादिकं यथाक्रम स्वयमेवोह्य पूर्वकालकल्पितरथादितत्तद्वाहननिरीक्षणेन चान्तरालिकप्रमाणलक्षणादिकं ज्ञात्वा मानविद्भिस्तक्षकैलाहकारैश्च तद्योज्यमिति भावः ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायो प्रमाणबोधिन्याख्यायो
विश्वकर्मवास्तुशास्त्रव्याख्यायां कल्पवृक्षादिवाहनलक्षणकथनं नाम
चतुरशीतितमोऽध्यायः॥
B... 101