________________
266
तन्मध्ये देवपीठस्तु चाधिष्ठानादिभिर्युतः । चतुरश्राकारत लैरनेकैर्युतमस्तकम् ॥ २४ ॥ तस्योपरि विमानादिकल्पनं शुभदं भवेत् ।
गन्धर्वाद्यनेकदेवताबिम्ब जालानि
दारुमयान्ययःकीलघटितानि
वर्णयोजन सहितानि वा प्रकल्पयेत् । एवं चक्रयुग्यो परि अधिष्ठानकल्पनमुपर्युपरि क्रमाश्चतसृषु दिक्ष्वपि वृद्धियुतं प्रतितलं बहुचित्रचित्रितं कारयित्वा तदुपरितले एकपुरुषौन्नत्याधिक्यप्रमाणयुतानां नानास्तम्भानां चित्रोपेतानां स्थापनं कार्यम् | किन रथकल्पनस्याधिष्ठानो परितले क्रमपङ्किरीत्या एवं
स्थापितानामेतेषां स्तम्भानां मध्यभागे विशालाङ्गणे स्थापितोच्छ्रिताधिष्ठाने देवी सहितस्य
कार्यमिति विवेकः ॥
मध्य
देवबेरस्यासनस्थापनं
किश्चैवमत्र रथमध्यभागे देवबेरासनपीठस्थापनानन्तरं तेषु स्तम्भेषूपरितलेषु मिथो दृढबन्धनयुक्तं प्रस्तरावलीप्रमुखकार्यजालं विरचय्य तदुपरि प्रथमतलं चतुरश्रं कल्पयित्वा सत्प्रमाणात्किचिन यूनप्रमाणं द्वितीयतलं स्थापयेत् । एवं द्वितीयतलात्किश्वित्प्रमाणहीनं तृतीयतलकल्पनमित्यादिक्रमेण दारुमयतलसप्तकोपेतं वा, तलनव कोपेतं वा तलैकादशकोपेतं वा रथकरूपनं सर्वमप्ययः कीलादिघटितदारुपट्टिकाखण्डादिसहितमेव कारयित्वा