________________
अथ मनुष्यजन्मफलकथनं नाम
सप्ताशीतितमोऽध्यायः ॥ दुर्लभं मानवं जन्म कथितं शास्त्रपारगैः । तदवाप्प बुधो लोके महत्संपादयेत्फलम् ॥ १ ॥
॥ सप्तार्शीतितमोऽध्यायः ॥ | एतावता प्रबन्धेन प्रतिपादितानां नानाविधक्रियाजालानां निर्माणप्रमाणादिकं बोर्बु कतु कारयितुं वा मानव एव समर्थों भवति । तस्मादेवविध कार्यों पकृतिजनकमानवजन्ममाहात्म्य. प्रशंसापूर्वकमेतस्य वास्तुशास्त्रम्य निगमनप्रकरणं शास्त्रकारः प्रतिजानीते - दुर्लभं मानवं जन्मेत्यादिना । कृतत्रेताद्वापराख्येषु युगान्तरेषु देवगन्धर्व किन्नरादयः स्वदिव्यसंकल्पनेनैव दिव्यप्रासादमण्डपविमानादिकं निर्मातुं समर्था आसन् । केषुचित्समयेषु कचिद्विश्वकर्मप्रभृतीनां दिव्यया शक्त्या प्रासाद. विमानादिकञ्चावापुः । अब तु कलौ युगे भूलोके प्रायशो यसमन्त्रादिदिव्यशक्तिहीना अपि मानवा विश्वकर्मीयस्यास्य शास्त्रोत्तमस्य सेवनादिना तादृशप्रासादादिकं कर्तुमपि प्रभवन्ति । तस्मात्पापवृद्धिकरे पुण्यमयकारिणि अस्मिन्नन्तिमयुगे तादृशकल्पनापतिजनक मानवं जन्म प्रायशो दुर्लभमेवेत्ययमर्थः पुराणादिषु मुनीन्द्रैः स्पष्टीकृत एव । अतश्विरपुण्यराशिप्राप्यं मानवं जन्म लडध्वाऽपि पुमाम् तस्य जन्मनस्साकस्यकारी