________________
अथ कल्पवृक्षादिवानलक्षणक्रमकथनं नाम चतुरशीतितमोऽध्यायः ॥
सर्वेषामपि देवानां देवीनाञ्च विशेषतः ।
कितेषां सर्वेषामपि बेराणामनुगुणं पीठादिकं युक्तया शिल्पी कल्पयेदिति च शिल्प संप्रदायक्रमः | अपि चात्रोक्तस्य परिब्राजकाचार्यस्य विश्वगुरोरिशलावेरस्थापनमुत्सवाई लोहबेर
स्थापनश्च करणीयमित्यर्वाचीनाः ॥
किश्चैतेषां प्रत्यहं माननादिकं यथाक्रमं भट्टारकवर्यः प्रकल्पयेदिति संक्षेपेण भक्तबेरभेदलक्षणस्थापनादिक्रमः प्रति
पादितो ज्ञेयः ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां भक्तबेरस्थापनक्रमकथनं नाम त्र्यशीतितमोऽध्यायः ॥
॥ चतुरशीतितमोऽध्यायः ॥
एतावता प्रबन्धेन नानारूपाणां कल्पनीयानां सर्वेषामपि देवबेराणां, देवीबेराणां, भक्तगणानाञ्चान्येषां बेराणां निर्माणक्रममुपदिश्य तेषां बेराणां च उत्सवसमयारोपणाहणां कल्प