________________
७८६
दण्डिनं खगुरुं वापि वेदशास्त्रार्थकोविदम् || ७ ||
क्षुद्रपीठसमायुक्तं जपमालालसद्गलम् । लसद्वेष्टनयुक्तं वा पृथक्कल्पनसंयुतम् । बद्धाञ्जलिपुटं भक्त्या स्थापयेत्क्षेमसिद्धये ॥ ८ ॥
इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे
भक्तवेरस्थापनक्रमकथनं नाम व्यशीतितमोऽध्यायः ॥
कनकादिप्रदायिनो राज्ञो बेरं तस्मिन्देवालये देववेदिकायां वा स्थापितदेवचेराणामागमक्रमतः प्रतिष्ठाकारिणो दीक्षितस्य भट्टाचार्यस्य पुरोहितम्य च क्रमात्माञ्जलिपुटबेराणि च स्थापयेत् ॥
किन कचित्स्थलान्तरे प्राकारान्तरे मण्डपान्तरे प्रदक्षिणपार्श्वमण्डपान्तरे वा विश्वगुरोस्संप्रदायसिद्धान्तस्थापयितुः परिव्राजकस्यापि बेरं बद्धाञ्जलिपुटं स्थापयेत् । एवमत्र स्थापितेषु भक्तबेरेषु विश्वकर्मबेरस्य मौलितले किरीटस्थापनं, राज्ञो मौलितले वेष्टनकल्पनं, भट्टाचार्यादीनां मौलितले शेषपटदुकूलपट्टवस्त्रादिवेष्टनं, कण्ठभागे वक्षोभागे च जपमालिका योजनं कार्यम् । अयन क्रमः परिव्राजकाचार्यबिम्बेषु न योजनीयः । परन्तु तस्य करकमले एकदण्डं त्रिदण्डं वा संयोज्य काषायवस्त्रपरिवेष्ठन कार्यमिति क्रमः ॥