________________
७८५
तत्स्थानं कल्पयेच्छिल्पी तदायुधतलं मतम् ॥ ५ ॥
तत्पुरोभागके द्वारभागे वा स्तम्भभित्तिके । त्वष्टारं शास्त्रकर्तारं विश्वकर्माणमादिमम् ॥ ६ ॥
निर्मापितारं राजानं दीक्षितं वा पुरोधमम् ।
तस्मादेतादृशबलिपीठध्वजखम्भभक्तमण्डपानां पुरोभागे पश्चाद्भागे कचित्पृष्ठभागे च मण्डपान्तरं क्षुद्रप्रमाणयुतं वा स्थापनीयम् । एतच्च भक्तमण्डपान्तरन्तु पूर्वोक्तदेवभद्रमण्टपसंयुक्तं वा पृथग्वा स्थलविभवानुगुणं प्रकल्पयदित्यर्थः । एवं दिव्य. भक्तानां स्थानस्य पार्शदिस्थलकृते मण्डपान्तरे प्रधानदेवस्य देव्या वा आयुधजालादीनि स्थापयित्वा प्रत्यहं कालत्रयेऽपि पूजयेदि. त्युपदेशः ॥
किश्च सर्वत्र देवालये प्रामकृते वा नगरकृते गर्भगृहस्य पूर्वभागस्थिते पूर्वोक्तास्थानमण्डपे प्रधानस्तंभान्तिके तत्स्तम्भमिलितं वा पृथक् वास्तुशास्त्रप्रणेतारं दिव्यं विश्वकर्माणं घनशिलाबेररूपं साञ्जलिबन्धं स्थापयेदिति शास्त्रकारोऽयं स्वस्यापि बेरस्थापनं देवालये कार्यमित्युक्तवान् । एवं तस्य गर्भगृहस्य मण्डपस्य वा निर्मातारं भौमं त्वष्टार, शिल्पाचार्य, स्थपतीश्वरं वा तत्पुरोभागे स्तम्भान्नरतले स्थापयेत् । अनेनैव प्रकारेण स्थलान्तरे स्तम्भान्तरे वा तस्य देवालयस्य निर्माणार्थ धन
8. B. 99