________________
७८४
दिव्यमूरिगणं वापि पावमानिमथापि वा ॥ ३ ॥ मण्डपस्य पुरोभागे प्राकारे वा प्रकल्पयेत् । भक्तध्वजाद्यावरणं द्वाराणान्तु न दोपकृत् ॥४॥ पूर्वमण्डपयुक्तं वा पुष्पमण्डपसंयुतम् ।
नथा च सर्वत्र देवालयेषु पुरोभागस्थितास्थानमण्डपस्याग्रभाग एव गरुडस्य, नन्दि देवस्य वा स्थानकल्पनमवश्यं कार्यमित्युक्तम् ।।
किञ्च देवालये कचित्प्राकारत्र यप्राकारपञ्चकाद्यावृत तु एतादृशभक्तानां बेराणि द्विनीयप्राकारद्वारारम्भतले वा तृतीयप्राकारद्वारारम्भतले वा क्षुद्रप्रमाणं शिला गृहं शिलामण्डपं वा निर्मापयित्वा तन्मध्ये स्थापयेदिति स्थलविकल्पः । प्रायशो विष्णुमन्दिरेषु शिवमन्दिरेषु चात्रोक्तरीत्या ध्वजस्तम्भवलिपीठसमीपस्थल एवं गरुडनन्द्यादिदिव्यभक्तबेरस्थापनं वरम । कचित्स्थलान्तरे प्राकारान्तरे द्वारसूत्रपुरोभागे स्थापनञ्च न निन्द्यमेवेति स्थलविकल्पक्रमं प्रतिपाद्य तथा भक्तबेराणां स्थापनं द्वारमार्गावरणकरं चेत कि कार्यमित्यत आह - द्वाराणां तु न दोषकदिति । प्रामकृते वा नगरकृते वा देवालये सर्वत्र द्वारस्य पुरोभागे मध्यसूत्रम्थाने बलिपीठस्थापनं ध्वजस्तम्भस्थापन गरुडनन्द्यादिदिव्यभक्तबेरस्थापनं च द्वाराणां न दोषकद्भवेत् । परन्तु शुभकरमेवेति समयः॥