________________
अथ भक्तबेरस्थापनकमकथनं नाम त्र्यशीतितमोऽध्यायः॥
भक्तबेरस्थापनश्च शुभदं परिकीर्तितम् । देवालयेषु सर्वेषु भक्तानां भक्तिवर्धकम् ॥ १ ॥ वेदिकाधिष्ठितं वापि पृथङ्मण्डपसंयुतम् । पृथक्शालासमोपेतं भक्तानां स्थापनं शुभम् ॥ २॥ गरुडं नन्दिकेशं वा योगिनं वा मुनीन्द्रकम् ।
॥यशीतितमोऽध्यायः ॥ एवं सकलविधदेवबेरदेवीबेरमुपपाद्यास्मिन व्यशीतितमेऽध्याये तादृशदेव पादारविन्दभक्तिभाजां भक्तोत्तमानां लक्षणं निरूपयतिभक्तवेरस्थापनश्चेत्यादिना । पूर्वोक्तानां सर्वेषामपि देवानां देवीनां पादारविन्दे भक्तिशालिनो ये दिव्यसूरयो गरुडपावमानिनन्दि सनक सनन्दनादयो देवा महर्षयश्च पुराणग्रन्थेषु प्रतिपादिताः, देवभक्तानां तेषां बेराणि च देवस्य पुरोभागे कचिदेव्याश्च पुरोभागस्थले स्थापयदिति शास्त्रकारोपदेशक्रमः । तस्मादेतेषां भक्तानां बेरस्थापनस्थलन्तु पूर्वोक्तस्य देवगर्भगृहस्यान्त्यद्वारस्य पुरोभागे ध्वजस्तम्भस्थानस्य, बलिपीठस्थानस्य चाम्तस्थले द्विहस्तौनत्यवत्यां चतुरभवेदिकायां वा तदर्थ पृथकल्पितक्षुद्रप्रमाणमण्डपशालाकूटमध्यस्थले वा स्थापयेदिति क्रमो निगदितः ।