________________
प्रदक्षिणस्थलोपेतं विहारगृहमण्डपम् । बिमानशिखरोपेतं नानालङ्कारमण्डितम् । डोलामण्डपसंयुक्तं पृथग्गेहं प्रकल्पयेत् ॥ १२ ॥
इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे लक्ष्मीगोर्यादिबेरलक्षणकथनं नाम
यशीतितमोऽध्यायः॥
-
सर्वथा सर्वत्र देवीबेराणां पृथक्स्थापनविषये क्षुद्रप्रमाणयुतमपि तदेवीबेरालयं कचिड्डोलामण्डपपुरोमण्डपविहारशालामण्डपप्रदक्षिणमार्गाद्युपेतं सशिखरविमानं प्रकल्पयेदित्युपदेशः शास्त्रकारकृतः स्वीकार्य इति ।।
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां लक्ष्मीगौर्यादिवरलक्षणकथनं नाम
घ्यशीतितमोऽध्यायः॥