________________
७८१
स्थापयेन्नाथपार्श्वे वा पृथग्वा मण्डपान्तरे । अथवा तामिमां देवीं पृथग्गर्भगृहे क्वचित् ॥ ९ ॥ स्थापयेत्प्राङ्मुखां प्रायशिल्पी शिल्पविदां वरः । तत्तदेवी लक्षणाढ्यां भक्तानां मङ्गलप्रदाम् ॥ १० ॥
शारदां लोकजननीं पृथग्वा संप्रकल्पयेत् । क्वचित्तु देवगन्धर्वसुन्दरीगणसेविताम् ॥ ११ ॥
क्षेत्राधिनाथासनेषु वा युक्तं सर्वक्षेमकरमिति भावः । एवं स्थापितानां देवीविम्बानां अन्तिकस्थले पचतालषट्नालसप्ततालाष्टतालादिप्रमाणैस्तासां देवीनां परिचर्यासक्तानां देवगन्धर्वकिन्नरादिदिव्यसुन्दरीणां बेरादिकं च पृथक् स्थापनीयमिति प्राचामाशयः । एवं कल्पनन्तु चित्रकार्ये परं युज्यते; न बेरकर्मणीति नवीनाः । किन देवालये कचिदरुन्धत्यनसूयालोपामुद्रादिमहर्षि पत्नी. वेरस्थापन पूजनादिकमपि श्रेयस इति साधवः । अत्र तु विषये औदासीन्यं भजन्त्यागमवेत्तारः ॥
तस्मादेतेषु देवीबेरेषु विष्णुदेवीबेरं प्रधाननाथस्य पार्श्वे स्थापयित्वा स्थलान्तरे पृथक्कल्पिते क्षुद्रप्रमाणालयगर्भगेहे पुनरप्येतद्वेरस्थापनं कार्यम् । एवं क्रमस्तु लक्ष्मीभूमीनीला गोदासीतारुक्मिणीदेवीप्रभृतीनां तत्तत्क्षेत्रनाथदेवीनां बेरनिर्माणाविषयक इति भावः । किञ्चायन्तु क्रमश्शिवदेवीबेरेषु नोपपद्यत इति ॥