________________
७८८
अभिषेकैश्च नैवेधैर्या प्रीतिस्संप्रजायते ॥ १॥ ततोऽधिका भवेत्प्रीतिः वाहनारोपणाद् ध्रुवम् । तस्मात्तद्विविधं कार्य शिल्पिभिर्मानवेदिभिः ।
चन्दनस्सारवृक्षैर्वा लोहपट्टावृतैस्तथा ॥२॥ वृक्षाद्यनेकविधवाहनानां निर्माणक्रमं अस्मिश्चतुरशीतितमेऽध्याय क्रमेण प्रतिपादयति - सर्वेषामपीत्यादिना। तादृशवाहननिर्माणप्रयोजनमादौ व्यनक्ति - अभिषेकैश्चेत्यादिना । क्षीरादिभिर्नानाविधैरभिषेक मुद्गानगुडानपाय सान्नदध्यन्नमाषानपोल्या - धनेकविधखाद्यलेह्य चोप्याद्यनेकभक्ष्यादिनैवेद्यार्पणैश्च तेषु बेरेषु उत्तमेषु सान्निध्यं कृतवतां हरिहरादिदेवानां या प्रीतिर्मन. स्समुल्लामो जायते तदधिका प्रीतिस्तेषां देवानां कल्पवृक्षगरुडहनुमवृषभशिबिकारथादिविविधवाहनारोपगेनोद्भवतीति । तस्मात् तदर्थ कल्पनीयानि विविधानि वाहनजालानि चन्दन:रुत्तमैरन्यैश्च सारवृक्षनिर्मापणीयानीति नियमः । कथं सारवृक्षखण्डेवे वाहननिर्माणमिति चेन्मानवानां स्कन्धैम्सुलभवहनार्थ शोभार्थञ्चति भावः । तस्माद् दृश्नखण्डैरेव निर्मापणीयेषु विविधप्रमाणेषु कल्पवृश्वादि वाहनेषु कचित्ताम्राणि, राजतानि, सौवर्णानि पट्टिकाकवचादीनि संयोज्यानीति मतिः । कवचादीनीत्यादिपदेन तेषु तेषु वाहेषु मुखाद्यवयवेषु शुक्लपीतादिवर्णजालैः यथाक्रम भासंपतिश्च कार्येति विवेकः ।।