________________
कार्तिकेयं गणाध्यक्षं तत्तद्वाहसमन्वितम् ॥१०॥ शुलपाशसृणीकुन्तमुसलाद्यायुधोज्ज्वलम् । तद्देव्यालिङ्गिततर्नु कल्पयच्छिल्पवित्तमः ॥ ११ ॥ मूलोत्सवक्रमावरनिर्माणं यत्र संयुतम् ।
किच्चाने का विधानां शिवमूर्निराणामेतेषां लिङ्गवेराणां चायुधभेदनिर्माणरीत्यादि कन्तु मानसारमातध्यानादिशिल्पशास्त्रग्रन्थषु प्रतिपादितं बोध्यम । विस्तरभयान्नाव लिख्यत इति ।।
किश्चैवंप्रकारेण शिवबरकल्पनन्तु क्वचित्नत्कुटुम्बबेरसंयुक्तं कार्यमिति । यथा --- गौरीदेव्याम्समीपे वा परमशिवस्य समीपे वा कार्तिकेय सुब्रह्मण्यवरनिर्माणं सदेवीकं स्थापयेत् । एवंरीत्या स्थलान्तरे वामभागे पुरतस्स्थले वा गणपतिबेरं विविधरूपं, स्थानान्तरे नन्दि देव कल्पनं च राज्ञः प्रतिष्ठाकारिणस्सर्वेषामपि जनानामायुरारोग्यैश्वर्यादिश्रेयःप्रदमिति च भावः ।।
किश्च सर्वेषामत्रोक्तानां शिवबेराणां कल्पने मूलबेरं लिङ्गवरं च पूर्वोक्तरीत्या गर्भगृहमध्यस्थितदैववेदिकायां स्थापयित्वा तदुत्सवबेरमन्यत्र प्रथम प्राकारमण्डपमध्यस्थाने वा द्वितीयप्राकारकल्पितभद्रमण्डपादिस्थानेषु वा स्थापयेदिति शैवागमोपदेशक्रमः । अयन्तु संप्रदायो विष्ण्वायतने नोपपद्यते । कुतः ? यस्मिन्स्थले मूलबेरनिर्माणं राजते तस्मिन्नेव स्थले उत्सवबेरं स्थापनीयमिति