________________
वृषारूढं हरिहरं लिङ्गरूपमनेकधा ॥९॥ त्रिपुरान्तकरूपं वा क्षेत्रनाथमनेकधा ।
शिववरं वा १७. भैरवबेरनिर्माणं वा ११. दक्षिणामूर्तिबेरनिर्माणं वा १२. कैलासनाथबेरनिर्माणं वा १३. वृषवाहनदेव बेरनिर्माणं वा १४. हर्यर्धदेवभागने वबेरनिर्माणं वा ५५. त्रिपुरान्तकदेवबेरनिर्माणं वा १६. तत्तत्क्षेत्रनाथबेरनिर्माणं वा पूर्वोक्तरीत्या नवतालदशतालद्वादशतालप्रमाणयुतं यथाक्रमं यथाविभवं प्रकल्पयेत् ।।
किश्च क्वचिच्छिवालयेषु पूर्वोक्तगर्भगृहमध्यवेदिकास्थाने १. वल्मीकनाथलिङ्गवेरनिर्माणं या २. ज्योतिर्लिङ्गबेरनिर्माणं वा ३. पृथिवीलिङ्गवेरनिर्माणं वा ५. अब्लिङ्गबेरनिर्माणं वा ५. तेजोलिङ्गबेरनिर्मागं वा ६. वायुलिङ्गबेरनिर्माणं वा ७. आकाशलिङ्गबेरनिर्माणं वा ८. देवलिङ्गबेरनिर्माणं वा ९. ब्रह्मलिङ्गबेरनिर्माणं वा १०. महर्षिलिङ्गबेरनिर्माणं वा शिलाभिर्यथाक्रमं निर्मापयित्वा स्थापयदिति च शिल्पसमयः ॥
एवमत्रोक्तरीत्या स्थापनीयानां लिङ्गानां बेराणां च, प्रकारान्तरेण ग्रन्थान्तरप्रमाणवचनानुसारेण च कल्पनीयानां शिव लिङ्गबेराणाञ्च तत्र तत्राविर्भावकारण महिमादिकन्तु विखरशो ब्रह्माण्डपुराणस्कन्दपुराणादिषु प्रतिपादितं तत्र द्रष्टव्यमिति ।