________________
७७०
सत्कृत्य च महादेवं प्रापुश्च परमां मुदम् ॥ ५ ॥ तत्प्रसादवशात्सर्वं जगत्स्थावरजङ्गमम् । निराबाधञ्च निष्पीडं परमानन्द भागभूत् ॥ ६॥ तस्मात्तद्दिव्य मूर्तीस्तु स्थापयेल्लक्षणान्वितः । नटेशवेरं कैरातं चन्द्रशेखरमेव वा ॥ ७ ॥ मृत्युञ्जयं पशुपतिं चण्डेशं गजमर्दनम् । जटाधरमुमाकान्तं सोमास्कन्दञ्च भैरवम् ॥ ८ ॥
दक्षिणामूर्तिरं वा कैलासाधिपति शुभम् ।
"
अभिषेकाचननैवेद्योत्सवादिभिरानचुः । तस्य तु देवदेवस्य प्रसादादखिलं जगदिदं परमानन्दवशगमं भूदित्यादिकः स्पष्टार्थः । तस्मात्तस्य परमेश्वरस्य बेरनिर्माणं पूर्वोक्तरीत्याऽवश्यं स्थापनीयमित्युक्तं भवति ।।
तथा च प्रामनगरादिवास्तुस्थलेषु देवालयनिर्माणकारयिता वा देवबेरप्रतिष्ठापयिता वा स्वस्ववाच्छानुगुणं तत्तत्क्षेत्रमाहात्म्यप्रतिपादितपरमेश्वरमूर्त्यवतारानुगुणं
नटेशबेर निर्माणं वा
किरातबेर निर्माणं वा
पशुपतिदेव बेर निर्माणं वा
जटाधारिबेर निर्माणं वा
गौरीकार्तिकेयोपेतपरम
२. चन्द्रशेखरबेर निर्माणं वा ४. मृत्युञ्जयबेरनिर्माणं वा ५.
७.
६.
गजासुर संहारबेरनिर्माणं वा ८. गौरीकान्तबेर निर्माणं बा
१.
३.
९.