________________
ललाटभ्रूनेत्रनासाधरगण्ड स्थलानि च ॥ १९ ॥ कर्णकण्ठभुजानालवक्षोनाभिस्थलानि च । जबोरुपादस्थानानि स्थानान्यन्यानि चाङ्गके ॥ २० ॥ तद्रेखाजालयुक्तानि तत्प्रमाणयुतानि च । तालप्रमाणोर्ध्वमानक्रमात्सर्व प्रकल्पयेत् ॥ २१ ॥ नानाभरणसंयुक्तमन्तर्वाससमुज्ज्वलम् । द्विहस्तं वा चतुर्हस्तं षट्करन्त्वष्टहस्तकम् ॥ २२ ॥ कल्पयेहादशकरं नानायुधसमन्वितम् । नानामुद्रासमायुक्तकरं वा संप्रकल्पयेत् ॥ २३ ॥ अथाञ्जलिपुटोपेतं भक्तरूपं सपीठकम् । यज्ञसूत्रसमायुक्तं कण्ठतन्तुसमुज्ज्वलम् ॥ २४ ॥
योजनश्च क्रमात्परिकल्पयेत् । एवं तत्तद्देवाहायुधयोजनं द्विहस्तचतुर्हस्तषड्ढस्ताष्टहस्तद्वादशहस्तकचतुर्विशतिहम्तकादिनिर्माणं च यथाक्रमं कारयेत् ।।
किञ्च बेरनिर्माणक्रियाकुशलश्शिल्पी सर्वेषामपि तेषां देवराणां देवीबेराणाश्च युक्त्याऽऽभरणानि रेखारूपाणि समुचितानि वक्षोमुखहस्ताद्यवयवेषु योजयित्वा पुंबेराणां भुजतले यज्ञसूत्रलम्बनं स्त्रीबेराणां कण्ठनाले नित्यमाङ्गल्यसूत्रलम्बन पूर्ववरेखाकारं प्रकल्पयेत् । अपि च केषाश्चिदेवानां दक्षिण